पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२७

पुटमेतत् सुपुष्टितम्
श्लो० २०-२६]
८१
रतिविलापवर्णनम्

 ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिष[१]ण्णधन्वनः ।
 मधुना सह सस्मितां कथां नयनोपान्तवि[२]लोकितं च यत् ॥ २३ ॥

 ऋजुतामिति ॥ शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । 'धनुषश्च' (पा. ५।४।१३२) इत्यनङादेशः । ते तव मधुना वसन्तेन सह । 'मधुर्दैत्ये वसन्ते च चैत्रे च' इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम्,'ते' इत्यनुषङ्गः । तच्च स्मरामि ॥ २३ ॥

 क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
 न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ २४ ॥

 क्वेति ॥ हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्'(वा. २००९) इति खच्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन स कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा ? गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम्, भस्मतामित्यर्थः । न गमितः खलु, न प्रापितः किम् ? 'जिज्ञासानुनये खलु' इत्यमरः ॥ २४ ॥

 अथ तैः परिदेविताक्षरैर्हृदये दिग्ध[३]शरैरिवाह[४]तः ।
 रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ २५ ॥

 अथेति ॥ अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम्, आश्वासयितुमित्यर्थः । 'अभ्युपपत्तिरनुग्रहः' इत्यमरः । आत्मानं पुरोऽदर्शयत्, आविरभूदित्यर्थः ॥ २५ ॥

 तमवेक्ष्य रुरोद सा भृशं स्त[५]नसंबाधमुरो जघान च ।
 स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ २६ ॥

 तमिति ॥ सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भृशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । 'परिक्लिश्यमाने च' (पा. ३।४।५५) इति णमुल् । उरो जघान



६ कु० सं०
 
  1. निषङ्ग; निषक्त.
  2. विलोकितानि च.
  3. दिग्धफलैः.
  4. इवार्दितः.
  5. गुरु.