पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३७

पुटमेतत् सुपुष्टितम्
श्लो० ५-११
९१
तपश्चरणोद्यतायाः पार्वत्या वर्णनम्

वलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेधेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंल्श्रेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध, धारयामासेत्यर्थः ॥ ८ ॥

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् |
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥

 यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । रोहन्तीति रुहाः । 'इगुपधज्ञाप्रीकिरः कः' (पा. ३।१।१३५) इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथा हि--पङ्कजं पद्मं षट्पदश्रेणिभिर्भ्रमरपङ्क्तिभिरेव न, किंतु सह शैवलासङ्गेन सशैवलासङ्गमपि । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । प्रकाशते, शैवलेनापि शोभत एवेत्यर्थः ॥ ९ ॥

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम् ॥ १० ॥

 प्रतीति ॥ सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृत्तां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार । तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्याऽस्या देव्या रशनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम्, सौकुमार्यातिशयादिति भावः ॥ १० ॥

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥

 विसृष्टेति ॥ तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठान्निवर्तितः । 'निसृष्टरागात्' इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात्, पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्रप्रणय्यक्षमालासहचरः कृतः ॥ ११ ॥