पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३५-३९]
१०१
पार्वत्यास्तपःप्रशंसनम्


 विकीर्णसप्तर्षिबलि[१]प्रहासिभिस्तथा न गाङ्गैः सलिलैर्र्दिवश्चयुतैः ।
 यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥३७॥

 विकीर्णेति ॥ एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१।५०) इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोक्तैर्दिवोऽन्तरिक्षाच्युतैर्गाङ्गैः सलिलैस्तथा न पावितः। अनाविलैरकलुषैस्त्वदीयैश्वरितैर्यथा सान्वयः सपुत्र- पौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥

 अनेन धर्मः सविशेषमद्य मे त्रिवर्गमारः प्रतिभाति [२]भाविनि!।
 त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥३८॥

 अनेनेति ॥ हे भाविनि प्रशस्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः। 'त्रिवर्गो धर्मकामार्थै- श्चतुर्वर्गः समोक्षकैः' इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणा- न्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

 संप्रति मनोरथं जिज्ञासुः प्रस्तौति---

 प्रयुक्तसत्कारविशेषमात्मना न मां परं संग्रतिपत्तुमर्हसि ।
 यतः[३] सतां संनतगात्रि! संगतं मनीषिभिः साप्तपदीनमुच्यते ॥३९॥

 प्रयुक्तेति ॥ आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नाहसि । हे संनतगात्रि संनताङ्गि ! 'अङ्ग- गात्रकण्ठेभ्यः' (पा. ४।१।५५) इति वक्तव्यान्डीप् । यतः कारणान्मनस ईषिभि- र्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरा- पद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते, तच्चावयोस्त्वत्कृतसत्कार- प्रयोगादेव सिद्धमित्यर्थः। 'साप्तपदीनं सख्यम्' (पा. ५।२।२२) इति निपात- नात्साधु ॥ ३९॥


पाठा०-१ प्रवाहिभिः. २ भामिनि. ३ यथा.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः