पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५७

पुटमेतत् सुपुष्टितम्
श्लो० ६३-६७]
१११
शिवस्तव पाणिग्रहणेननुरूप इतिप्रतिपादनम्

इत्याह वामनः । किमित्याह--महेश्वरो महादेवो विदितः, मया ज्ञायत इत्यर्थः । बुद्ध्यर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात् षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव वर्तसे, तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह--अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य विचार्य तवानुवृत्तिमनुसरणं कर्तुं नोत्सहे, नानुमन्तुं शक्नोमीत्यर्थः ॥ ६५ ॥

 अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
 [१]रेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥

 अवस्त्विति ॥ अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति ! आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचिततत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते ? न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद्दूरेऽवतिष्ठतां, प्रथमं करग्रह एवं दुःसह इति भावः ॥ ६६ ॥

 त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
 वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ॥

 त्वयेवेति ॥ हे गौरि ! त्वमेव स्वयमात्मना । 'तावत्' इति मात्रार्थे, यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति ? कलहंसलक्षणं कलहंसचिह्नम् । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । वध्वा नवोढाया दुकूलं वधूदुकूलम् । 'वधूः स्नुषा नवोढा स्त्री' इति विश्वः । तथा शोणितबिन्दून्वर्षतीति तथोक्तम्, आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् ? एतत्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणणे किल वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु

दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः ॥ ६७ ॥


  1. भुजेन.