मुक्तायज्ञोपवीतानि बिभ्रतो हैम[१]वल्कलाः ।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥ ६ ॥
मुक्तेति ॥ मुक्तानां मौक्तिकानां यज्ञोपवीतानि, मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेममयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । 'व्रजयजोर्भावे क्यप्' (पा. ३।३।९८) इति क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना 'प्रव्रज्या' शब्देन वानप्रस्थाश्रमो लक्ष्यते । 'जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः' (६।३४) इति सपत्नीकत्वाभिधानात् । 'सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्' (याज्ञ. स्मृ. ३।४५) इति वानप्रस्थस्योभयथा स्मरणात् ॥ ६ ॥
अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
सहस्ररश्मिना सा[२]क्षात्सप्रणाममुदीक्षिताः ॥ ७ ॥
अध इति ॥ अधःप्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः, गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥ ७ ॥
आसक्तबाहुलतया सार्धमु[३]द्धृतया भुवा ।
महावराहदष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ८ ॥
आसक्तेति ॥ पुनः किंविधाः ? प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया, दंष्ट्रायामिति शेषः । उद्धृतया, दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः, महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥ ८ ॥
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ९ ॥
सर्गेति ॥ विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात्, ब्रह्मसृष्टावशिष्ट
टिप्प०--1 कल्पवृक्षाणां रत्नफलत्वं चोक्तं नैषधीये (११।१०)--'एषां गिरेः
सकलरत्नफलस्तरुर्यः प्राग्दग्धभूमिसुरभेरिव पञ्चशाखः' इति ।