पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १२-१७]
१५१
अङ्गरागार्पणादिप्रसाधनवर्णनम्

मन्तर्निक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशपाशं दूर्वावता मध्ये प्रथि- तदूर्वेण पाण्डुमधूकदाम्ना हरितमधुदुमकुसुममाल्येन । 'मधूके तु गुडपुष्प- मधुद्रुमौ' इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपद्धबन्ध ॥ १४ ॥

 विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः ।
 सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥१५॥

 विन्यस्तेति ॥ अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिंस्तद्गो- रोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेषितं च चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्रोतसो गङ्गायाः कान्तिं शोभामतीत्याति- क्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यम् , त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम् ॥ १५ ॥

 लग्नद्विरेफ परिभूय पझं समेघलेखं शशिनश्च बिम्बम् ।
 तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ।। १६ ॥

 लग्नेति ॥ प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । अलकैरुप- लक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्म समेघलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्ति सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् , प्रसक्तयोः पद्मचन्द्रयोः परिभूत- स्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् ॥ १६ ॥

 कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपॅनितान्तगौरे ।
 तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥ १७ ॥

 कर्णेति ॥ तस्या गौर्याः कर्णेऽर्पितो निक्षिप्तो यवप्ररोहो यवाङ्कुरो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन रूक्षे विशदे, उद्वर्तिते इत्यर्थः । 'कषायो रसभेदे स्यादङ्गरागे विलेपने' इति विश्वः । गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे। 'गौरः श्वेतेऽरुगे पीते' इति विश्वः। कपोले गण्डस्थले परभागलाभाद्वर्णोत्कर्षप्राप्तेश्चक्षूंषि, द्रष्टणामिति शेषः । बबन्ध जहार, भाच-


पाठा०-१ आसक्त. २ अस्याः. ३ विभङ्गमङ्गम् . ४ लीन. ५ भेद.