पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४४-४९]
१६१
विवाहे मुनिभिः शिवस्य जयजयकारः

 तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
 विवाहयज्ञे विततेत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥४७॥

 तस्मा इति ॥ तस्मै शिवाय सप्तर्षिभिः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१/५०) इति समासः। पुरस्तादग्रे 'जय' इत्याशीः ससृजे प्रयुक्ता तान्सप्तर्षीन्स्मितपूर्वमाह-किमिति । अत्र वितते विस्तृते प्रवर्तिते विवाह एवं यज्ञस्तस्मिन्यूयं मया पूर्वमेव वृताःप्रार्थिता अध्वर्यवो ऋत्विज इति विशेषवाचिना सामान्यमुक्तम् ॥ ४७ ॥

 विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
 अध्वानमध्वान्तविकारलङ्घयस्ततार ताराधिपखण्डधारी ॥ ४८ ॥

 विश्वावस्विति ॥ विश्वावसुर्नाम कश्चिद्गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणनिपुणैर्वा । 'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः । त्रयाणां पुराणां समाहारस्त्रिपुरम् । 'तद्धितार्थोत्तरपद-' (पा. २।१।५) इत्यादिना समाहारसमासः। 'स नपुंसकम्' (पा.२।४।१७) इति सूत्रवृत्तौ 'पात्रादिभ्यः प्रतिषेधो वक्तव्यः' (वा. १५५९) इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य संबन्ध्य- वदानं पूर्ववृत्तं कर्म विजयरूपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । 'अवदानं कर्म वृत्तम्' इत्यमरः। ध्वान्तं तमः, मोह इति यावत् । तद्विकारेण रागादिना लङ्घयोऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घयः, विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत् ॥ ४८ ॥

 खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः ।
 तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥४९॥

 ख इति ॥ ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । सशब्दाः शब्दायमानाश्चामीकरकिंकिण्यः काञ्चनक्षुद्रघण्टिका यस्य स तथोक्तः । 'किंकिणी क्षुद्रघण्टिका' इत्यमरः । 'नवृतश्च' (पा. ५।४।१५३) इति क्यप् । वाह्यतेऽनेनेति वाहो वृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अत एव तटाभि- घातादोधोभेदालग्नपङ्के श्लिष्टकर्दमे इव स्थिते विषाणे शृङ्गे मुहुर्धन्वंतं हर- मुवाह वहति स्म ॥ ४९ ॥

११ कु. सं.