पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१७

पुटमेतत् सुपुष्टितम्
श्लो० ७६-८१]
१७१
विवाहे लाजाहोमवर्णनम्

 पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते ? यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किमु वक्तव्येत्यर्थः । 'विवाहसमये गौरीशिवौ वधूवरावनुप्रविशेताम्' इत्यागमः ॥ ७८ ॥

 प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिपस्तन्मिथुनं च[१]कासे ।
 मेरोरु[२]पान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७९ ॥

 प्रदक्षिणेति ॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात्प्रदिक्षिणीकरणाच्चकासे । किमिव ? मेरोरुपान्तेषु परिसरेषु वर्तमानमावर्तमानम्, मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्येन संसक्तं संगतम् । मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे द्वन्द्वैकवद्भावः ॥ ७९ ॥

  तौ दम्पती त्रिः परिणीय वह्विमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
  स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ८०

  ताविति ॥ स पुरस्तादेव हितं विधत्त इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्पर्शेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती कर्मभूतौ । जायाशब्दस्य दम्भावो निपातितः । वह्निं त्रिस्त्रिवारम् । 'द्वित्रिचतुर्थ्यः सुच्'(पा.५।४।१८) इति सुच् प्रत्ययः । परिणीय परितो नीत्वा, प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकाल्ल्यप् । समिद्धार्चिषि दीप्तज्वाले तस्मिन्वह्नौ वधूं लाजमोक्षं लाजविसर्गं कारयामास । 'हृक्रोरन्यतरस्याम्' (पा. १।४।५३) इति विकल्पादणिकर्तुः कर्मत्वम् ॥ ८० ॥

  सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
  कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ८१ ॥

  सेति ॥ सा वधूर्गुरोः पुरोधस उपदेशात्, इष्टः, घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय कपोलसंसर्पिणी शिखा यस्य स तथोक्तः स धूमस्तस्या गौर्या मुहूर्तकर्णोत्पलतां प्रपेदे । धूमस्य विस्मरत्वान्मुहूर्तग्रहणम् ॥ ८१ ॥


  1. बभासे.
  2. मेरोरिवान्तपरिवर्त.