पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२७

पुटमेतत् सुपुष्टितम्
श्लो० ६-१२]
१८१
प्रभाते पार्वत्याः सखीजनं प्रति सह्रीकवर्तनम्

 यदिति ॥ पार्वती प्रियस्य प्रियकर्तृकम् । 'कर्तृकर्मणोः-' (पा. २।३।६५) इति कर्तरि षष्ठी । अक्षताधरमदष्टाधरोष्ठं यन्मुखस्य ग्रहणं चुम्बनार्थं करेणादानम् । तथाऽव्रणपदमदत्तचिह्नं यन्नखस्य दानम् । इह कर्मणः शेषत्वविवक्षायां षष्टी । अन्यथा 'न लोक-' (पा. २।३।६९) इति तन्निषेधः प्रसज्जेत । तथा सदयं स्पर्शमात्रविरामं यच्च रतम् । मध्यान्तयोस्तृतीयान्तेन संबन्धः । 'न लोक-' (पा. २|३|६९) इति कृद्योगलक्षणायाः षष्ठ्या बाधात् । तद्विषहते स्म सोढवती । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । 'परिनिविभ्यः' (पा. ८।३।७०) इति षत्वम् । इतरत्कठोरमुखग्रहणादि न विपहते स्मेत्यर्थः ॥ ९ ॥

 रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्र[१]भातसमये सखीजनम् ।
 नाकरोदपकुतूहलं ह्रिया शंसितुं तु[२] हृदयेन तत्वरे ॥१०॥

 रात्रिवृत्तमिति ॥ प्रभातसमये रात्रिवृत्तं नैशं वृत्तान्तम् । 'वाच्यवद्वर्तने वृत्तं चरित्रच्छन्दसोरपि' इति विश्वः । अनुयोक्तुं प्रष्टुम् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं सखीजनं सा पार्वती ह्रिया हेतुभूतयाऽपकुतूहलं शमितजिज्ञासाकौतुकं नाकरोत्, नोत्तरयांचक्र इत्यर्थः । अथ च हृदयेन, मनसा तु कर्तृणा शंसितुमुत्तरं कर्तुं तत्वरे त्वरितम् । भावे लिट् ॥ १० ॥

 दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुपः ।
 प्रेक्ष्य बिम्बमुप[३]बिम्बमात्मनः कानि कानि न[४] चकार लज्जया ॥ ११ ॥

 दर्पण इति ॥ किंचेति चार्थः । दर्पणे परिभोगदर्शिनी संभोगचिह्नावलोकिनी सा पार्वती । पृष्ठतो निषेदुषः स्थितवतः प्रणयिनो हरस्य बिम्बं मुखमण्डलम् । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । आत्मन उपबिम्बं बिम्बसमीपे । 'अव्ययं विभक्ति-'(पा.२।१।६) इति समीपार्थेऽव्ययीभावः । पतितं प्रेक्ष्य लज्जया कानि कानि चेष्टाविशेषचमत्कृतानि न चकार, अपि तु सर्वाणि चकारैवेत्यर्थः ॥ ११ ॥

 नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी स[५]माश्वसत् ।
 भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ १२ ॥

 नीलकण्ठेति ॥ जननी मेना । तां पार्वतीं नीलकण्ठेन शिवेन परिभुक्तं


  1. विभात.
  2. च.
  3. अनुबिम्बम्.
  4. अपि.
  5. समाश्वसीत्.