पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३९-४५]
१९१
पार्वतीं प्रतिशिवेन संध्यानुरागवर्णनम्

ईक्षणे येषां तैः । युगेन स्कन्धधार्यकाष्ठेन भुग्ना मृदिताः केसराः स्कन्धरोमाणि येषां तथोक्तैर्हयैरश्वैः कृत्वा । अस्तमस्ताचलमेति गच्छति । 'अस्तस्तु चरमः क्ष्माभृत्' इत्यमरः ॥४२॥

 खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
 तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥४३॥

 खमिति ॥ हे प्रिये ! ख व्योम रवौ संस्थितेऽस्तंगते सति प्रसुप्तमिव भवति । युक्तमेवेत्याह-महतस्तेजस ईदृशी वक्ष्यमाणा गतिरस्ति । सा केत्याह--तत्तेजः कर्तृ । उद्गतमुदितं सत् । यावत् , स्थानमित्यर्थः । प्रकाशयति, च्युतं भ्रष्टमस्तमितं सदिति यावत् । तावतः स्थानस्य मीलनाय संकोचनाय भवति खलु । यत्र तेजस्तिष्ठति तत्प्रकाशते, यतो गच्छति तन्न प्रकाशत इति भावः । उत्प्रेक्षालंकारः ॥४३॥

 संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
 येने पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥४४॥

 संध्ययेति ॥ संध्ययापि कर्त्र्या अस्तशिखरे समर्पितं निहितं वन्द्यं पूज्यं रवेर्वपुर्मण्डलं कर्म । अनुगतमन्वगामि । योग्यमेवैतदित्याह - पूर्वमुदये प्रातःसमये येन पुरस्कृताऽग्रे कृता संमानिता च । उदये प्रागेव संध्यागम इति प्रसिद्धम् । आपदि विपत्समये, अस्तमय इति यावत् । तं सूर्यं कथं नानुयास्यति ? अपि तु यास्यत्येवेत्यर्थः । सतीधर्म एष एवेति भावः॥४४॥

 रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यमूः ।
 द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमंण्डिताः॥४५॥

 रक्तेति ॥ हे कुटिलकेशि प्रिये ! अमूः पुरोगताः । रक्ताश्च पीताश्च कपिशाश्च तथोक्ताः, नानावर्णा इत्यर्थः । पयोमुचांं कोटयोऽश्रयः। 'स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः' इति विश्वः । भान्ति । तास्त्वं द्रक्ष्यसीति हेतोरनया संध्यया कार्त्र्या । वर्तिकाभिश्चित्रशलाकाभिः साधु यथा तथा मण्डिता इव भूषिताः किम्वित्युत्प्रेक्षा ॥ ४५ ॥

पाठा०-१ उत्थितम्. २ तावता. ३ पदम्. ४ धर्मम्. ५ प्राक्तथेयम्.

६ सांध्यवेलया. ७ वर्णिकाभिः. ८ वर्तिताः.