बिन्दवो यत्र। मद् रूपाणि कारणेन स्मितं मन्दहासश्च यत्र । तदुमायाः पार्वत्या मुखमीश्वरः शिवस्तावत्प्रथमं चिरं चक्षुषा पपौ सादरं ददर्श, आननेन तु न पपावित्यर्थः ॥ ८॥
तां विलम्बितपनीयमेखलामुद्बहञ्जघनभारदुर्वहाम् ।
ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥८॥
तामिति ॥ ध्यानेन संभृता संपादिता विभूतिरुपभोगसाधनसंपत्तिर्येन स ईश्वरो विलम्बिनी तपनीयस्य सुवर्णस्य मेखला काञ्ची यस्यास्ताम् । तथा जघनभारेण दुर्वहां दुःखेन वोढुं शक्याम्। वहतेः 'ईषदुःसुषु कृच्छाकृच्छार्थेषु' (पा.३।३।१२६) इति खल् । तां पार्वतीमुद्वहन्सन् । रह एकान्ते मणिशिलानां गृहं प्राविशत् ॥८॥
तत्र हंसधवलोत्तरच्छदं जाह्ववीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥
तत्रेति ॥ तत्र मणिशिलागृहे स हरो हंस इव धवलं उत्तरच्छदः शयनोपरितनं वस्त्रं यस्य । तथा जाह्नवीपुलिनवञ्चारु दर्शनं यस्य तच्छयनं पल्यङ्कम् । रोहिणीपतिश्चन्द्रः शारदं शरत्कालिकमभ्रं मेघमिव । प्रियासखः सन् , पार्वतीसहित इत्यर्थः । अध्यशेताशिश्रियत् । 'अधिशीङ्-' (पा. १।४।४६ ) इति कर्मत्वम् ॥ ८२ ॥
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ।। ८३ ।।
क्लिष्टेति ॥ क्लिष्टा विक्ल्ऱुप्ताः केशा यत्र । अवलुप्तं चन्दनं यत्र । व्यत्ययेनास्थानप्रयोज्यत्वेनार्पिता नखा यत्र । तथा समत्सरं सप्रणयकलहम् । तथा छिदुरो भङ्गशीलो मेखलागुणः काञ्चीसूत्रं यत्र । एतादृशं तत् पार्वतीरतं तस्य शिवस्य तृप्तये नाभूत् , कामोत्सवस्योद्वेलत्वादिति भावः ॥ ८३ ॥
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८४ ॥
केवलमिति ॥ ज्योतिषां नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु, रजन्यां प्रभात-
पाठा०-१ संभृतिविभूतिरीश्वरः; संभृतिविभूतिसंभृतम् ; संभृतिविभूतिगोचरम्. २ हरः. ३ क्लिष्टचन्द्रमदयैः कचग्रहै.. ४ व्युत्पथार्थित; उत्पथार्पित. ५ अभूदतृप्तये..
६ परिगृहीत