पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
[ सर्गः ८
कुमारसंभवे

कल्पायां सत्यमित्यर्थः । केवलं प्रियतमायां दयालुना, न तु क्षीणशक्तिनेत्यर्थः । तेन शिवेन तया पार्वत्या प्रतिगृहीतमालिङ्गितं वक्षो यस्य तथोक्तेन सता नेत्रमीलनस्य । निद्राया इत्यभिप्रेतोऽर्थः । कुतूहलं कृतम् , सुप्तमित्यर्थः ॥ ८४ ॥

 स व्यवुध्यत बु[१]धस्तवोचितः शातकुम्भकमलाकरैः समम् ।
 मूर्च्छनापरिगृहीत[२]कैशिकैः किन्नरैरु[३]षसि गीतमङ्गलः ॥ ८५ ॥

 स इति ॥ बुधानां बुधकर्तृकै स्तव उचितः स शिव उषसि प्रभाते मूर्च्छनयोञच्चारणस्वरारोहावरोहेण, तदनुसारेणेत्यर्थः । परिगृहीताः कैशिका वीणातन्तवो यैस्तैः किंनरैः किंपुरुषैर्गीतं मङ्गलं यस्य तथोक्तः सन् । शातकुम्भस्य सुवर्णस्य यानि कमलानि तेषामाकराः समूहास्तैः समं सह व्यबुध्यत, जजागारेत्यर्थः । 'खनिः स्त्रियामाकरः स्यात्' इति कोशप्रामाण्यात् 'आकर' शब्दस्य खनिवाचकत्ये सत्यपि परिणतार्थपक्षपातेन समूहवाचकत्वमपि सोढव्यम् । दृश्यमानार्थे बाधस्य वतुमशक्यत्वात् ।। ८५॥

 तौ क्षणं शिथिलितोप[४]गूहनौ दंपती च[५]लितमानसोर्मयः ।
 पद्मभेदपि[६]शुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८६॥

 ताविति ॥ क्षणं शिथिलितं विरामगोचरीकृतमुपगूहनमाश्लेषो याभ्यां तो दंपती स्त्रीपुंसौ गौरीहरौ कर्मभूतौ । चलिताश्चालिता मानसस्य सरस ऊर्मय- स्तरंगा यैः । एतेन शत्योक्तिः । तथा पद्मानां भेदस्य प्रफुल्लतायाः पिशुनाः सूचकाः । अनेन सौगन्ध्योक्तिः । गन्धमादनवनान्तस्य मारुताः पवनाः सिषेविरे, सेवितवन्त इत्यर्थः ॥ ८६ ॥

 ऊरुमूलनखमार्गरा[७]जिभिस्तत्क्षणं हृतविलोचनो हरः ।
 वाससः प्रशिथिलस्य सं[८]यम कुर्वतीं प्रियतमामवारयत् ।। ८७॥

 ऊर्विति ॥ ऊरुमूले या नखमार्गाणां नखक्षतानां राजयः पङ्क्तयस्ताभिः कर्त्रीभिः हृते स्वविलोकनवशीकृते विलोचने यस्य तथोक्तो हरस्तत्क्षणं प्रभातसमय प्रकर्षेण शिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमां पार्वतीमवारयत् 'बन्धनं मा कुरु' इति निवारयांचक्रे, नखक्षतविलोकनवशंवदत्वादिति भावः ॥ ८७ ॥



  1. तया निशाक्षये.
  2. वंशिकैः.
  3. समुपगीत.
  4. प्रशिथिला.
  5. रचित.
  6. निपुणा:.
  7. पङ्किभिः.
  8. संचयम्.