पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८५-९१]
२०३
शिवसंभोगातृप्तिवर्णनम्

 स प्रजागरकषायलोचनं गाढदन्तपरिताडिताधरम्१ ।
 आकुलालकमरंस्त२ रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥

 स इति ॥ रागवान् स हरः प्रजागरेण रात्रिजागरेण कषाये म्लाने लोचने यत्र । तथा गाढं यथा तथा दन्तैः परिताडितोऽधरो यत्र । तथाऽऽकुला विरला अलकाः केशा यन्त्र । तथा भिन्नं तिलकं यत्र । एतादृशं प्रियाया मुखं प्रेक्ष्यारंस्त प्रससाद, आत्मनः कर्तृत्वादिति भावः ॥ ८८

 तेन भिन्न३विषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
 निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥८९॥

 तेनेति ॥ निशात्यये प्रभाते निर्मलेऽपि प्रकटेऽपि सति तेन हरेण भिन्नोऽत एव विषम उत्तरच्छद उपरितनं वस्त्रं यत्र । तथा मध्ये पिण्डिता एकत्रीभूता विसूत्रा सूत्ररहिता मेखला काञ्ची यत्र । तथा चरणरागेण यावकेन लाञ्छितं रक्तीकृतं च शयनं नोज्झितं न त्यक्तम् , सुखार्णवमग्नत्वादिति भावः ॥ ८९ ॥

 स ४प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
 दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्५ ॥ ९० ॥

 स इति ॥ हर्षवृद्धेर्जननमुत्पादकं प्रियामुखरसं दिवानिशं सिषेविषुः सेवितु- मिच्छति तथोक्तः । स शिवो विजयया पार्वतीसख्या यन्निवेदनं स्वागमज्ञापनं तस्मात् , तद्वारत्यर्थः । दर्शने प्रणयिनामभिलाषवतामयदृश्यतामदर्शनदातृत्व- माजगाम प्राप, सर्वं त्यक्त्वा तल्लय एव जात इति भावः ॥ ९० ॥

  समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
   शतमगमदृतूनां ६साग्रमेका निशेव ।
  न तु७ ८सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
   ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः९ ॥ ९१ ॥

 समदिवसेति ॥ तत्र गन्धमादनगिरौ समाः प्रत्येकं समसंख्याका ये दिवसा

दिनानि तेषां निशीथमर्धरात्रम् , तमभिव्याप्येत्यर्थः । सङ्गिनः सङ्गवतः, न तु


पाठा०-१ पदताडित. २ अपास्तचित्रकम्. ३ भङ्गि. ४ प्रियासुखरसम्.

५ निवेदितः. ६ सार्धम्. ७ च; स. ८ सुखेषु. ९ तज्जलेभ्यः; तज्जलेषु.