पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
[ सर्गः ९
कुमारसंभवे

 भस्मेति ॥ स हरः । आदर्शतलं भस्मनानुलिप्ते स्वकीये वपुषि विमृज्य शुद्धं कृत्वा नेपथ्यानामाकल्पवेषाणां लक्ष्म्याः शोभायाः परिभावनार्थमवलोकनार्थ सहेलं यथा तथा जीवितवल्लभां प्रियामदर्शयत् ॥ २८ ॥

 प्रियेण दत्ते मणिदर्पणे सा संभोगचिह्नं स्ववपुर्विभाव्य ।
 त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ॥ २९ ।।

 प्रियेणेति ॥ प्रियेण हरेण दत्ते मणीनां दर्पण आदर्श संभोगस्य चिह्नानि नखक्षतादीनि यत्र तथोक्तं स्वं वपुर्विभाव्यावलोक्य । भावनाऽत्र विलोकनपरिणता ज्ञेया । त्रपावती सलज्जा, ‘एतानि चिह्नानि विलोक्यान्यः किं वदिष्यति' इति विचारजनितया लज्जयान्धेत्यर्थः । सा पार्वती तन हरे घनमनुरागं प्रेम रोमाञ्चानां दम्भेन कैतवेन बहिर्बहिःस्थितत्ववैशिष्ट्यपूर्वकं बभार धृतवती । अन्तरस्या योऽनु- रागोऽभूत स एव बही रोमाञ्चत्वेन परिणत इति भावः ॥ २९ ॥

 नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सम्मेरमादर्शतले विलोक्य ।
 अमंस्त सौभाग्यवतीषु धुर्यामात्मानमुद्धूतविलक्षभावा ॥३०॥

 नेपथ्येति ॥ सा पार्वती । आदर्शतले दयितेन हरेणोपक्लृप्तां रचितां नेपथ्य- लक्ष्मीमाभूषणमण्डनं सस्मेरं सस्मितम् । अत्र स्मितस्यानुरागव्यञ्जकत्वम् । यथा तथा विलोक्योद्धृतस्त्यक्तो विलक्षभावः पूर्वसंजातवैलक्ष्यं यया, प्रसन्नेत्यर्थः । तथोक्ता सती। आत्मानं सौभाग्यवतीषु सतीषु मध्ये धुर्यामग्रगण्याममंस्त मेने, प्रियकृतनेपथ्यलक्ष्म्या अन्यदुर्लभत्वादिति भावः ॥ ३० ॥

 अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
 सुसंपदोपाचरतां कलानामङ्के स्थितां तां शशिखण्डमौलेः ॥३१॥

 अन्तरिति ॥ अथानन्तरं तत्रावसरे समये विजया जया चेत्युभे स्निग्धे सार्द्रचित्ते वयस्ये सख् । 'आलिः सखी वयस्या च' इत्यमरः । अन्तः प्रविश्य तत्र शशिनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य संबन्धिन्यङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया संपदा, शोभयेत्यर्थः ।

पाठा०-१ च. २ संयोगचिह्नम्. ३ विलक्षता सा; विलक्षभावम्. ४ उमां तदो-

पाचरतां कलानाम् ; स्वसम्पदोपाचरतां कलानाम्. ५ दूरे स्थिताम ; अङ्कस्थिताम.