पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-८]
२२१
वह्निवैरूप्ये शक्रप्रश्नः

हेतोरासादि प्रापि ? इति सुरेन्द्रेण पृष्टः सन्निःश्वस्य निःश्वासं कृत्वा वचो वक्ष्यमाणमवदत् ॥ ५॥

 अथ युग्मेनाह-

  अनतिक्रमणीयात्ते शासनात्सुरनायक ! ।
  पारावतं वपुः प्राप्य वेपमानोऽतिसाध्वसात् ॥ ६ ॥
  अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।
  कालस्येव स्मरारातेः स्वं रूपमहमासदम् ॥ ७ ॥

 अनतीति ॥ अभिगौरीति ॥ हे सुरनायक! अहं पारावतं कपोतं वपुः प्राप्यानतिक्रमणीयादनल्लङ्घनीयात्ते तव शासनाद्धेतोरभिगौरि गौर्यामित्यभिगौरि । 'अव्ययं विभक्ति-' (पा. २|१।६) इत्यादिना विभक्त्यर्थेऽव्ययीभावः । रतासक्तं महेश्वरं जगाम प्राप । जगामेति लिट उत्तमपुरुषैकवचनम् । अथ चातिसाध्व- साद्वेपमानः कम्पमानोऽहं कालस्येव, तद्वद्भयानकस्येत्यर्थः । स्मरारातेर्हरस्य । पुर इति शेषः । स्वं रूपमाग्नेयं स्वरूपमासदं प्रापम् । लङ उत्तमपुरुषक- वचनम् ॥ ६-७ ॥

  दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् ।
  ज्वलद्भालानले होतुं कोपनो माममन्यत ॥ ८ ॥

 दृष्ट्वेति ॥ हे जम्भभिदिन्द्र ! सुज्ञो हरो मां दृष्ट्वा । अथ च छद्मना विहङ्गं विज्ञाय ज्ञात्वा । दर्शनमात्रादेव तु कापठ्यानवगम एव किंतु विलम्बोपस्थिततया । अतो ज्ञानदर्शनयोर्भिन्नकालीनत्वात्पृथग्व्यपदेशः । अतो ल्यब्द्वयस्य मनन- क्रियापेक्षया पूर्वत्वेनान्वयः । कोपनः क्रोधनः सन् । 'क्रुधमण्डार्थेभ्यश्च' (पा. ३।२।१५१ ) इति युच् । मां ज्वलति भालस्थेऽनलेऽग्नौ होतुं दग्धुममन्यत मेने । मननमत्र विचारणं तद्धवनफलकमिति भावः । अहमेनमग्नौ धक्ष्यामीति विचचारेत्यर्थः ॥ ८॥

पाठा०-१ अतिगौरी. २ उपान्तम्. ३ ज्ञानभृत् ; यज्ञभित्. ४ कोपतः.

५ अयममन्यत; मामलोकयत्.