पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४४]
२३१
मन्दाकिनीं प्रति स्नानार्थं कृत्तिकागमनम्

लस्य शिखाशतैः प्रकरणाच्छिवधाम्न एव तप्तान्यत एवोष्णान्यस्या गङ्गाया जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः, निर्गतवन्त इत्यर्थः । यानि महेश्वरधाम- शिखाशतानि तान्यत्युग्रसंतापरूपसाधारणधर्मेण गम्यमानेन प्रलयकालानल- संबन्धीनीवेत्युत्प्रेक्षा । 'अर्चिर्हेतिः शिखा स्त्रियाम्' इत्यमरः । हित्वेति 'ओहाङ् स्यागे' इत्यस्य ॥ ४१॥

  तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
  समुदञ्चान्ति चण्डानि दुर्धराणि वभार सा ॥ ४२ ॥

 तेजसेति ॥ सा गङ्गा । रौद्रेण तेन तेजसा तप्तान्यत एव समुदञ्चन्ति, अतितापवशादुरप्लुत्य बहिर्निःसरन्तीत्यर्थः । अत एव चण्डानि प्रचण्डस्वरूपा- ण्यत एव दुर्धराण्यपि सलिलानि बभार धृतवती । तेजसो रुद्रसंबन्धित्वादिति भावः ॥ ४२ ॥

  जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे ।
  जग्मुः पट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥४३॥

 जगदिति ॥ माघे माघसंज्ञकं मासि । ‘पद्दयोमास्-' (पा. ६।१।६३ ) इति मासशब्दस्य हलन्तमासादेशः । जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किंचिदभ्यु- दयोन्मुखे । शैलान्तर्हितेन तेजसा दिशः किंचित्प्रकाशयतीत्यर्थः । षट् कृत्तिकाः स्नातुं सुरापगां मन्दाकिनीं जग्मुः प्रापुः ॥ ४३ ॥

 अथ चतुर्भिः सुरापगां विशिनष्टि-

  शुभ्रैरभ्रंकषैरूर्मिशतैः स्वर्गनिवासिनाम् ।
  कथयन्तीमिवालोकावगाहाचमनादिकम् ॥ ४४ ॥

 शुभ्रैरिति ॥ आलोको दर्शनमवगाहः स्नानमाचमनं चेत्यादीनि यस्य तादृशं कर्म कुर्वतां स्वर्गनिवासिनामभ्रंकषैरुत्प्लुत्याकाशस्पृग्भिः शुभ्रैरूर्मिशतैस्तरङ्गशतै- रात्मदुःखं कथयन्तीमिवेत्युत्प्रेक्षा । अस्मिन्श्लोके पदद्वयाध्याहारदोषः स्फुट एव । क्रियाकारकयोः परस्परनित्यसंबन्धादाक्षेपलक्षणन्यायेन केचित्समादधते । उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः । यथान्योऽप्यात्म-

पाठा०-१ दुर्भराणि, २ स्वर्गमनं सताम्. ३ आचमनादिना.