पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २०-२५]
२६१
इन्द्रेण शिवान्तिके कुमारदर्शनम्

न्द्राणी' इत्यमरः । तस्या दयितः प्रियः पुरंदरः । तथाविधं पूर्वोक्तविशेषणविशिष्टं शैलसुतायाः पार्वत्या अधिनाथं महेश्वरं निरीक्ष्य क्षणं मुहूर्त क्षोभे चित्तसंचलने पर आसक्तः संचलनेन व्याकुल आसीत् । ननु महेश्वरदर्शनेन कथं व्याकुल आसी- दित्यर्थान्तरं न्यस्यति हि यतः धामधाम्नि तेजोराशौ कस्य मनश्चेतो न क्षुभ्यति क्षोभं प्राप्नोति ? अपि तु सर्वस्यापीत्यर्थः ॥ २२ ॥

 विकस्वराम्भोजवनश्रिया तं दृशां सहस्रेण निरीक्षमाणः ।
 रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण इवाम्रशाखी ॥२३॥

 विकस्वरेति ॥ स्वर्गपतिर्महेन्द्रः । विकस्वराणां प्रफुल्लानामम्भोजानां कम- लानां वनस्य श्रीरिव श्रीः शोभा यस्य तथाभूतेन दृशां नेत्राणां सहस्रेण तं महेश्वरं निरीक्षमाणो विलोकमानः सन् । रोम्णामालिभिः समूहैर्निमित्तैः पुष्पाणा- मुत्करेण समूहेनाकीर्ण आसमन्ताद्व्याप्त आम्रशाख्याम्रवृक्ष इव बभासे शुशुभे । उपमालंकारः ॥ २३॥

 दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः ।
 सर्वाङ्गजातं तदथो विरूंपमिव प्रिंयाकोपकरं विवेद ।। २४ ॥

 दृष्ट्वेति ॥ दृशां सहस्रेण महेशं शिवं दृष्ट्वा महेन्द्र इन्द्रोऽतितरामातिशयं कृतार्थः कृतकृत्योऽभूत् । अथोऽनन्तरं तत्सर्वाङ्गजातं सर्वेष्वङ्गेषु भूतं विरूपं रोमाञ्चजनितवैरूप्यं प्रियायाः शच्याः कोपकरं क्रोधविधायीव विवेद जज्ञे । सपत्नीसंबन्धजनितत्वशङ्काकुलत्वादिति भावः ॥ २४ ॥

 ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
 महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ २५॥

 तत इति ॥ ततोऽनन्तरम् । पुरंदर इन्द्रः कनकाद्रेः सुमेरोः सार इव सारो वीयं यस्य तम् , महाबलीयांसमित्यर्थः । अत एव ध्रतान्यस्त्राणि शस्त्राणि च येन । तथा महेश्वरस्य पितुरुपान्तिके समीपे वर्तमानं तिष्टन्तं कुमारं प्रेक्ष्य विलोक्य


पाठा०-१ निरीक्ष्यमाणः. २ सर्वाङ्गनेत्रो द्युपतिः; सर्वाङ्गजेन धुपतिः. ३ अग्र-

शाखी. ४ खलु तेन शक्रः. ५ सर्वाङ्गजातं विकलम् ; सर्वाङ्गजानेत्रदलम्. ६ विपूरम्. ७ पुरा. ८ प्रियालोकपरम् ; प्रियाकोपपरः.