पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५१-५७]
२७१
कुमारसहायेन तारकवधादेशनम्

सुरेन्द्रमुख्याः पुरंदरप्रधानाः ! एते यूयं मम वचनं शृणुध्वं शृणुत । तदेव सार्ध- द्वयेनाह-एष शंकरो देवः सुताद्यैः पुत्रप्रभृतिभिः, पुत्रपौत्रादिभिरित्यर्थः । भवतां युष्माकं कार्याय, कार्यं कर्तुमित्यर्थः । 'क्रियार्थ-' (पा. २।३।१४) इत्यादिना चतुर्थी । सज्ज: सिद्धो विचेष्टते, वर्तत इत्यर्थः । मम पुत्रपौत्रजनक- तायामपि भवत्कार्यमेव बीजमिति भावः ॥ ५४॥

 पुरा मयाकारि गिरीन्द्रपुत्र्या: प्रतिग्रहोऽयं नियतात्मनापि ।
 तत्रैप हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः ॥५५॥

 पुरेति ॥ हे देवाः ! पुरा पूर्वं नियतात्मनापि योगिनापि मया गिरीन्द्रपुत्र्या अयं प्रतिग्रह आदानम् , परिणयनमित्यर्थः । यदकारि कृतः । तत्रैष हेतुर्निमित्तम् । खलु । निश्चितम् । यद्यस्मादेष शत्रुस्तारकसंज्ञकस्तद्भवेन पार्वतीजन्मना वीरेण वध्यते हन्यते, अतस्तद्भवार्थं पार्वतीपरिग्रहः कृत इति भावः । अतोऽहं भवतामु- पालम्भपात्रं नेति श्लोकतात्पर्यम् ॥ ५५ ॥

 अत्रोपपन्नं तेदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
 निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः॥५६ ।।

 अत्रेति ॥ तत्तस्मादमी भवन्तोऽत्र भवत्कार्यं उपपन्नं युक्तम् , योग्यमित्यर्थः। तथाभूतमेनं कुमारं पृतनापतित्वे सैनापत्ये नियुज्य नियुक्तं कृत्वा शत्रुं तारकं निघ्नन्तु । एतत्साहाय्येन भवन्तस्तारकं मारयन्त्विति भावः । अत एष इन्द्रः सुरेन्द्रः सुरैः सह भूयोऽपि पुनरपि सुरलोकं स्वर्गं भुनक्तु पालयतु । आशिषि लोट्॥५६॥

 इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
 नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः ॥ ५७ ॥

 इतीति ॥ शंकरः शंकरसंज्ञको भगवानिति पूर्वोक्तमुदीर्योच्चार्य घोरो भीमः 'घोरं भीमं भयानकम्' इत्यमरः । यः संगरः सङ्ग्रामः स एव महोत्सवो महाना-

पाठा०-१ गिरीशपुत्र्याः. २ एकहेतुः. ३ हन्यते. ४ अथ. ५ इतः; अतः. ६ निहन्तु; निहत्य. ७ पुनातु; लभेत. ८ सुरेन्द्रः. ९ स्वम्, १० नन्दनैर्हि. ११ जय.

१२ देवविद्विषः.