पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २०-२५]
२८१
दिग्दन्तिवर्णनम्

'शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम्' इति मेदिनी । अवष्टम्भत आश्रयतः । 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति मेदिनी । अत्र 'स्तम्भ' शब्दनाश्रयो लक्षितः; स्तम्भस्याश्रयमिति तत्त्वात् । साध्वसं भयम् । 'भीतिर्भीः साध्वसं भयम्' इत्यमरः । उत्सृजन्तस्त्यजन्तः सुरा देवाः । अनन्तश केरपारशौर्यस्य यूथपतेर्गजराजस्यावष्टम्भत इभा गजा वनमिव । स्वर्गं गन्तुं प्रवेष्टुमुत्सेहिर उत्साहं चक्रुः । 'अनन्तशक्तेः' इति विशेषणं कुमारेऽपि योजनीयम् ॥ २२ ॥

 अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः ।
 सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथाः समन्तात् ॥२३॥

 अथेति ॥ अथोत्साहानन्तरं सुराः पुरंदरस्येन्द्रस्यारातेस्तारकस्य वधं मृत्यु चिकीर्षोः कर्तुमिच्छोगिरिजासुतस्य कुमारस्याभिपृष्टं पृष्ठसंमुखं त्रिपुरं दैत्यं दिधक्षोर्दग्धुमिच्छोः । 'दह भस्मीकरण' इति धातोरिच्छार्थे सनि ‘सन्यङोः' (पा. ६।१।९) इति द्वित्वे 'सनाशंसभिक्ष उः' (पा. ३।२।१६८) इत्युप्रत्ययः । स्मरारेः शिवस्याभिपृष्ठं प्रमथा इव स्थिताः समन्तानिरीयुनिर्जग्मुः, अन्तर्विविशुरित्यर्थः ॥२३॥

 सुराङ्गणानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
 प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ।। २४ ॥

 सुराङ्गणानामिति ॥ स्वर्गौकसो देवाः पुरस्तादग्रे जलकेलिभाजां जलक्रीडासक्तानां सुराङ्गणानामप्सरसां संततं निरन्तरं प्रक्षालितैरङ्गरागैः कुङ्कुमादिरचितैः पिञ्जरवारिपूरां पीतजलप्रवाहां स्वर्गधुनीं मन्दाकिनीं प्रपेदिरे प्रापुः । सुराङ्गणानामिति 'कुमति च' (पा. ८।४।३) इति णत्वम् ॥ २४ ॥

 अथ चतुर्भिस्तामेव “दिग्दन्तिनाम्" इत्यादिभिर्विशिनष्टि-

 दिग्दन्तिनां वारिविहारभौजां कराहतैर्भीमतरैस्तरङ्गैः।
 आप्लावयन्तीं मुहुरालवालश्रेणिं तरूणां निजतीरजानाम् ॥ २५ ॥

 तत्र दिग्दन्तिनामिति ॥ किंभूतां स्वर्गधुनीम् ? वारिणि विहारभाजां क्रीडतां

पाठा०-१ जयम्. २ सुराङ्गनानाम्. ३ विहारलीलाम्, ४ भीमवराहयूथैः । आशंसयन्सादरमद्रिपुत्रीमहेशपुत्राय पुरःपुरोगाः । स कार्तिकेयः पुरतः परीतो विय-

चरैर्लोलतैरस्तरंगैः. ५ श्रेणीः; श्रेणीम्. ६ गुरुतीरजानाम्,