पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-४]
२९१
कुमारस्योपरि देवैश्छत्रधारणम्

 तत्र स इति ॥ स गुहः कार्तिकेयो धनुर्धरस्तथा शक्तिधरश्च सन् दुर्निवारं दुःखेन निवारयितुं प्रतिरोद्धुं शक्यम् , अप्रतिरुद्धगतिकमित्यर्थः । मनसः सका- शादप्यतिवेगिनम् , बहुगतिजववन्तमित्यर्थः । इहाति नाम बहुश्चासौ वेगो जवश्च । स विद्यते यस्येति कृते 'न कर्मधारयान्मत्वर्थीयः' इति निषेध- प्रसक्त्या मत्वर्थीयो न स्यात् । अतोऽतीत्यस्य क्रियाविशेषणतामाश्रित्य समर्थनी- यम् । केचित्पुनः 'मनसोऽपि' इति पठित्वा व्याचक्षते । तथा जयश्रियो विजयलक्ष्म्याः संनयनं सम्यक्प्राप्तिसाधनम् । यमारुह्य गच्छन्तो वीराः सजय- लक्ष्मीका एव भवन्तीति भावः । सुतरां दुःसहम् । दुःसहता चैतद्दर्शनविषयिणी बोध्या। एतद्दर्शनेनैव शत्रवः पराजिता भवन्ति । अतो युक्तमेव जयश्रीसन- यनत्वम् । अत एव विजित्वरम् । विजित्वरेत्यानुपूर्वीकं नाम । नामत्वं च व्यक्ति- बोधजनकतावच्छेदकसंकेतत्वम् , दधानमिति शेषः । तथाभूतं महारथं महान्तं स्यन्दनम् । 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी । तदाध्य- रोहयदारुरोह ॥ २॥

 सुरालयश्रीविपदां निवारणं सुरारिसंपत्परितापकारणम् ।
 केनापि दध्रेऽस्य विरोधिदारणं सुचारु चामीकरधर्मवारणम् ।।३।।

 सुरालयेति ॥ विरोधिनं तारकं दारयति मारयति तद्विरोधिदारणम् । णिजन्तप्रयोगं कुर्वता कविना छत्रस्य जडत्वात्स्वातन्त्र्येण दारणक्रियोपयोगित्वा- संभवात्तदीयधारणप्रभावेण वीरो ह्यसौ कुमारस्तारकं जेष्यतीति सूचितम् । 'ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः' इति न्यायादिति भावः । अत एव सुरालयस्य स्वर्गस्य श्रियो लक्ष्म्या विपदामापदां निवारणं नाशकम् । अत एव सुरारेस्तारकस्य संपदां परितापस्य संतापस्य कारणं कर्तृ । सर्वत्र कर्तरि ल्युट । सुचारु सुतरां मनोहरं चामीकरस्य हेम्नो घर्मवारगं छत्रम् । अस्य कुमारस्योपरि केनापि देवेन दध्रे धृतम् । कर्मणि ल्युट् ॥ ३ ॥

 शरच्चरच्चन्द्रमरीचिपाण्डुरैः स वीज्यमानो वरचारुचामरैः ।
 पुरःसरैः किंनरसिद्धचारणै रणेच्छुरस्तूयत वाभिरुल्बणैः ॥ ४ ॥

पाठा०-१ संसत्. २ वारणम्. ३ विरागदारणम्. ४ शरद्वलत्. ५ रोचिभिः.

६ सुवीज्यमानः. ७ रणोत्सुक; स पण्मुखः. ८ उच्चकैः.