पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २५-२८]
३०१
चमूरवस्य भयानकत्ववर्णनम्

 गम्भीरभेरीध्वनितैर्भयंकरैर्म[१]हागुहान्तप्रतिनादमेदुरैः ।
 महारथानां गु[२]रुनेमिनिःस्वनैरनाकुलैस्तैर्मगराज[३]ताऽजनि ।। २७ ॥

 गम्भीरेति ॥ महान्तः परिणाहिनो ये गुहान्ता गह्वरमध्यानि तेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैः । अत एव भयंकरैर्विभीषकैः । 'मेघर्तिमयेषु कृमः'(पा.३।२।४३) इति खश् । गम्भीराणि मन्द्राणि यानि भेरीध्वनितानि दुन्दुभिशब्दाः । 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । तैः । तथा महारथानां महतां स्यन्दनानां संबन्धिन्यो या गुरुनेमयो महत्यश्चक्रधाराः । 'चक्रधारा प्रधिर्नेमिः' इत्यमरः । तासां निःस्वनैः शब्दैश्चापि, निमित्तभूतैरित्यर्थः । अनाकुलैराकुलत्वाभाववद्भिस्तैः सिंहैर्निमित्तैर्मृगराजता मृगाधिपत्यम्, अन्वर्थेति शेषः । सार्थाऽजनि जाता । राज्ञामयमेव परमो धर्मः प्रतिकर्तुमशक्तैरपि यदरिभ्यो न भेतव्यमिति । तदेभिर्मगरावधारिभिः कथंचिदपि न भीतम्, अतो युक्तमेषां खलु मृगराज इत्यभिधानमित्यभिप्रायः । अत्रापि विशेषोक्तिरलंकारः ॥ २७ ।।

 [४]मुत्थितेन त्रिदिवौकसां म[५]हाचमुरवेणाद्रितटान्तदारिणा ।
 प्रपेदिरे केसरिणोऽधिकं मदं स्व[६]वीर्यलक्ष्मीमृगराजतावशात् ॥२८॥

 समुत्थितेनेति ॥ समुत्थितेन समुदितेनात एवाद्रेः सुमेरोस्तटान्तानां शृङ्गमध्यानाम् । 'तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिपु' इति मेदिनी । 'प्रपातस्त्वतटो' इत्यमरश्च । दारिणा विदारकेण । अतिघोषेण महान्तः पर्वतभृगवोऽपि विदीर्णा बभूवुरित्यर्थः । अत्र शब्दकर्तृकपर्वततटविदारणस्यायोगेऽपि तद्योगकल्पनात्संबन्धादतिशयोक्तिरलंकारः । त्रिदिवौकसां देवानां संबन्धिन्यो या महाचम्वो महत्यः सेनाः। 'चमूः सेनाविशेषेऽपि सेनामात्रे च योषिति' इति मेदिनी । तासां रवेण ध्वनिना निमित्तेन केसरिणः सिंहाः कर्तारः । स्वस्य वीर्यं पराक्रम एव लक्ष्मीः शोभा यस्याः, आत्मपराक्रमशालिनीत्यर्थः । तथाभूता या मृगराजता हरिणाधिपत्यं तस्या वशादायत्तत्वात् । 'वशो जनस्पृहायत्तेष्वायतत्वप्रभुत्वयोः' इति मेदिनी । अधिकं बहु मदं गर्व प्रपेदिरे । कर्तरि लिद । भयानकोऽपि चमूरवः प्रत्युत सिंहानामधिकमदकारक एव जात इति भावः ॥ २८॥


  1. मुहुर्मुहान्तः.
  2. गुरुनादनिःस्वनैः.
  3. तापि किम्.
  4. समुच्छ्रितेन.
  5. चमूरवेण तेन.
  6. स्ववीरलक्ष्मी.