गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । महद्धौरं युद्धं सङ्ग्राम आसीद्बभूव । सर्गेऽस्मिन्वृत्तमनुष्टुप् ॥ १ ॥
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
तुरंगस्थं तुरंगस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥
पत्तिरिति ॥ पत्तिः पादचारी पत्तिं पादचारिणम्, रथी रथारूढो रथिनं रथारूढम्, तुरंगस्थोऽश्ववाहस्तुरंगस्थमश्ववाहम्, दन्तिनि गजे स्थितो दन्तिस्थं गजारोहम्, रणाय रणं कर्तुमभीयाय संमुखमगमत् । अत्र प्रत्येकं क्रियासंबन्धो विधेयः, अन्यथा बहुत्वप्रसङ्गः ॥ २ ॥
युद्धाय धावतां धीरं वीराणामितरेतरम् ।
वैतालिकाः कु[१]लाधीशा नामान्यलमुदाहरन् ॥ ३ ॥
युद्धायेति ॥ इतरेतरं परस्परं युद्धाय युद्धं कर्तुं धीरं गम्भीरं यथा तथा धावतां विद्रुवतां वीराणां योद्धॄणां नामानि कुलाधीशाः कुलस्वामिनः, कुलप्रदीपा इति यावत् । अनेन स्वात्मविद्यायामतिप्रावीण्यं व्यज्यते । वैतालिका बन्दिनः । अलं भूषणम्, शोभेति यावत् । यथा स्यात्तथोदाहरन्नूचुः । 'अयममुकसंज्ञको वीरो धावति, अयममुकसंज्ञको वीरो धावति' इत्येवंभूतं जगदुरित्यर्थः । आत्मपरावबोधार्थमिति भावः ॥ ३ ॥
पठतामिति ॥ प्रवीराः प्रकृष्टयोद्धारो विक्रमावलीं पराक्रमसमाहारं पठतां स्तुवताम् 'साधु पराक्रान्तम्, साधु पराक्रान्तम्' इति वदतां बन्दिवृन्दानां वैतालिकसमूहानां पुरोऽग्रे चित्तानि मनांसि क्षणं विलम्ब्य ददुः । यतो युद्धोत्सुकाः समरोत्कण्ठिताः, समरोत्कण्ठितमनोदानाभावो न श्रवणेन्द्रियस्य
केवलस्यैवार्थबोधासंभवात् ॥ ४ ॥