पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५१-५७]
३९१
चन्द्रोदयवर्णनम्

 सांध्यमस्तमितशेषमातपं रक्तरेखमपरा बिभर्ति दिक् ।
 संपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम् ॥५४॥

 सांध्यमिति ॥ अपरा दिक्प्रनीची । अस्तमिति मकारान्तमव्ययम् । तस्येत- शब्देन समासः । अस्तमितशेषमम्तंगतावशिष्टम् , अत एव रक्ता रेखाकृतिर्यस्य तं संध्यायां भवं सांध्यमातपं संपरायवसुधा युद्धभूमिः । 'समरे संपरायः स्यात्' इति विश्वः । तिर्यगुत्थितं तिर्यक्फलितं सशोणितं मण्डलाग्रं कृपाणमिव बिभर्ति । 'कौक्षेयको मण्डलाग्ः करवाल: कृपाणवत्' इत्यमरः ॥ ५४ ॥

 यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
 एतदन्धतमसं निरर्गलं दिक्षु दीर्घनयने ! विजृम्भते ॥ ५५ ॥

 यामिनीति ॥ यामिनीदिवसयोः संधिः संध्या, तत्र संभवे तेजसि संध्यारागे सुमेरुणा व्यवहिते सनि हे दीर्घनयने ! एतदन्धतमसम् । 'अबसमन्धेभ्यस्तमसः' (पा. ५।४।७९) इति समासान्तः । दिक्षु निरर्गलं विजृम्भते ॥ ५५ ॥

 नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः।
 लोक एप तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ॥५६॥

 नेति ॥ ऊर्ध्वमुपरीक्षणगतिर्दृष्टिप्रसारो नास्ति, अधोऽपि च न, अभितः पार्श्वयोश्च न, पुरतोऽये च न, पृष्ठतः पश्चादपि न । ईक्षणतिरिति सर्वत्र संबध्यते । तथाप्येष लोको निशि तिमिरमेवोल्बं जरायुः । 'गर्भाशयो जरायुः स्यात्' इत्यमरः । तेन वेष्टित आवृतः सन् । गर्भ एव वासो वसतिस्तत्र गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ॥ ५६ ॥

 शुद्धमाविलमवस्थितं चलं वक्रमाजवगुणान्वितं च यत् ।
 सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हतान्तरम् ॥५७॥

 शुद्धमिति ॥ शुद्धं स्वच्छमाविलं मलिनमवस्थितं स्थावरं चलं जङ्गमं वक्र कुटिलं ऋजोर्भाव आर्जवं तदेव गुणस्तेनान्वितं च यद्वस्तुजातम् । तदिति यत्त दोर्नित्यसंबन्धालभ्यते । तत्सर्वमेव तमसा समीकृतं दुर्लक्ष्यविशेषं कृतम् । तथा हि-हतमन्तरं विशेषो येन तद्वतान्तरमसतामसाधूनां महत्त्वं वृद्धिं धिक् । धिक्शब्दयोगाद्वितीया । समत्वेन परगतिविशेषतिरस्करणमसतां स्वभाव इति

सुप्रसिद्धम् , तमसोऽपि तथा महत्त्वं धिगित्यर्थः ॥ ५७ ॥