पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ७-११]
३१
तारकत्रस्तैः सुरैर्विधातुः संस्तवनम्

  जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
  जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥९॥

 जगदिति ॥ हे भगवन् ! त्वं जगद्योनिर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः। त्वं जगतामादिर्जगदादिः, सृष्टेः प्रागपि सन्नित्यर्थः। अत एव त्वमनादिरादिरहितः । जगतामीशो नियन्ता स्वयं निरीश्वरः, अनियम्य इत्यर्थः । 'यतो वा इमानि भूतानि जायन्ते' (तैत्ति० ३।१।१) इत्यादिश्रुतिरेवान प्रमाणम् । अत्र 'अयोनिः' इत्यादौ नञ्तत्पुरुषाश्रयणे विरोधः, बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः। यथाहुः-'विरोधाभासत्वे विरोधः' इति ॥९॥

 तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

  आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
  आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥१०॥

 आत्मानमिति ॥ हे भगवन् ! स्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि। सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि, अधिष्ठानमपि स्वयमेवेत्यर्थः । 'स्वे महिम्नि प्रतिष्ठितम्' (छां ० ७।२४।१) इति श्रुतेः। कृतिना समर्थेन । इदं सर्वत्र संबध्यते। आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । 'प्रकृत्यादिभ्य उपसंख्यामम्' (वा० १४६६) इति वार्तिकात्सर्वत्रात्मनेति तृतीया। न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ १० ॥

  द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
  व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ ११ ॥

 द्रव इति ॥ त्वम्' इत्यनुषज्यते । हे भगवन् ! त्वं द्रवः सरित्समुद्रादिवद्र-


पाठा०-१ अनन्तो जगदन्तकः; जगदन्तोऽप्यनन्तकः, २ जगदीशोऽप्यनी- श्वरः. ३ गुरुर्लघुः.

टिप्प०-1 'अत्र स्वाधीनात्मसर्गस्थितिप्रलयस्यास्य ब्रह्मणः पराधीनसर्गादेः प्रपञ्चनाद्व्यतिरेकोक्तिः' इति नारायण० ।