पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३० प्रक.
81
आकरकमान्तप्रवर्तनम्


 पीनिका नागक्षिका; मोधूमवर्णा लैकुची; श्वेता वाक ळी ; शेषा नवनीतवर्णा ।
 तासां सौवर्णकुड्यका श्रेष्टा । तया कौशेयं चीनपट्टा श्च चीनभूमिजा व्याख्याताः ।
 माधुरमापरान्तकं कालिङ्गकं काशिकं बाङ्गकं वात्सकं माहि- पकं च कार्पासिकं श्रेष्ठमिति ।

अत. परेपा रत्नानां प्रमाण मूल्यलक्षणम् ।
जाति रूपं च जानीयान्निधान नवकर्म च ।।
पुराणप्रतिसंस्कारं कमें गुह्यमुपस्करात् ।
देशकालपरीभोगं हिस्साणां च प्रतिक्रियाम् ।।

इत्यध्यक्षप्रचार कोशप्रवेश्यरत्नपरीक्षा एकादशोऽध्याय.
आदितो द्वात्रिंशः.


३० प्रक, आकर कर्मान्तप्रवर्तनम्.


 आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञस्तज्ज्ञसद्धो वा तज्ज्ञातकर्मकरोपकरणसम्पन्न किट्टमूषागारभस्मलिङ्ग वाऽs- करं भूतपूर्वमभूतपूर्व वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमु- ग्रगन्धरस परीक्षेत ॥
 पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकाऽऽलयनिगूढखाते- ष्वन्तःप्रस्यन्दिनो जम्बूचूतताळफलपक हरिद्राभेदहरिताळक्षौद्र


1. स्करान 2 तालमनश्शिलाक्षौद्र.