पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
82
आधि १२ अध्याश
अध्यक्षप्रचार,


हिङ्गळुकपुण्डरीकशुकमयूरपत्रवर्णास्सवर्णोदकोषधीपर्यन्ताश्चिक्क णा विशदा भारिकाश्च रसाः काञ्चनिका ।
 अप्सु निष्ठयूतास्तैलवद्रिर्सीपण' पङ्कमलग्राहिणश्च ताम्र रूप्ययोश्शतादुपरिवेद्धार ।
 तत्प्रतिरूपकमुग्रगन्धरसं शिलाजतु विद्यात् ।
 पीतकास्ताम्रकास्ताम्रपीतका वा भूमिभस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिविन्दुपिण्डचित्रा हरिद्रा हरीतकीपद्मपत्रशैवलयकृतप्लीहानवधवर्णा भिन्नाश्रुञ्चु- वालुकालेखाबिन्दुस्वस्तिकवन्तः सगुळिका अर्चिष्मन्तस्ताप्य माना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातव' प्रतीवापार्थी स्ताम्ररूप्यवेधना।
 शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्थकगोमेदकगुळमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकळा यक्षौमातसीपुष्पवर्णास्ससीसाः साञ्जना विस्रा भिन्नाः श्वेतामाः कृष्णाः कृष्णाभाः श्वेता सर्वे का लेखाविन्दुचि- त्रा मृदवो धमायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः ।
 सर्वधा तूनां गौरववृद्धौ सत्त्ववृद्धिः-तेषामशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षारभाविता राजवृक्षवटपीलगोपित्तरोचना महिप खरकरट" मूत्रलण्डपिण्ड बद्धास्तत्प्रतीवापास्तदवलेपा वा विशु द्धास्स्रवन्ति ।


1. ब प्रभिन्ना. 2. वर्णा वा. 3. साजना विभिन्ना,
4 सर्वेषा. 5. विभाविता. 6. करम