पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
84
[२ अधि. १० अव्या.
अध्यक्षप्रचार


 भाण्डोपकारिणं च व्ययक्रियाभारिकमाकर भागेन प्रक येण वा दद्यात् । लाघविकमात्मना कारयेत् ।
 लोहाध्यक्षः ताम्रसीसत्रपु'वैकृन्तकारकूटवृत्तकंसताललोध्रक- र्मान्तान् कारयेत् । लोहभाण्डव्यवहारं च ।
 लक्षणाध्यक्ष चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्ज. नानामन्यतमं माषबीजयुक्तं कारयेत्-
 पणमर्धपण पादमष्टभागपिति ; पादाजीवं ताम्ररूपं माघ कमर्धमापक काकणीमर्धकाकर्णामिति ।
 रूपदर्शकः पणयात्रां व्यावहारिकी कोशप्रवेश्यां च स्था- पयेत्--
 रूपिकमष्टक शतं ; पञ्चकं शतं व्याजी; पारीक्षिकमष्टभागिकं शतं , पञ्चविंशतिपणमत्ययं चान्यत्र कर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः ।।
 खन्यध्यक्षः शङ्खवज्रमीणमुक्ताप्रवाळक्षारकर्मान्तान् कार- येत् पणन व्यवहारं च ।
 लवणाध्यक्ष पाकमुक्तं लवणभाग प्रक्रयं च यथाकालं सङ्गुह्णीयात्-विक्रयाच मूल्यं रूपं ब्याजीम् ।
 आगन्तुलवणं षड्भागं दद्यात्'-दत्तभागविभागस्य वि- क्रयः पञ्चकं शतं व्याजी रूपं, रूपिकं च । क्रेता शुल्कं राजपण्या- च्छेदानुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्छतमत्ययं च ।
 विलवण मुत्तमं दण्डं दद्यात् , अनिसृष्टोपजीवी च अन्यत्र वानप्रस्थेभ्यः । श्रोत्रियास्तपस्विनो विष्टयश्च भक्तलवणं हरेयुः ।


1 नास्ति, 2.मन्ति 3.पण्य 4.व्याजी च 5.दद्यादष्टभामं वां, 6.ये,
7."द्विलवण" इति भातृकाया : " विलवण विलादिमिश्रितम्” इति व्याख्यायाम,