पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१ प्रक.]
85
अक्षशालाया सुवर्णाध्यक्ष

अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात् ।
 एवं मूल्यं ' विभागं च व्याजी परिधपत्ययम् । 1001
 शुल्क वैधरण दण्ड रूपं रूपिकमेव च ।।
 खनिभ्यो द्वादशविधं धातुं पण्यं च सहरेत् ।
 एवं सर्वेषु पण्येषु स्थापयन्मुखमङ्ग्रहम् ॥
 आकरप्रभवः कोशः कोशादण्डः प्रजायते ।
 पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ।

इत्यध्यक्षप्रचारे आकरकर्मान्तप्रवर्तनं द्वादशोऽध्याय .
आदित. त्रयस्त्रिंश.


३५ प्रक. अक्षशालायां सुवर्णाध्यक्षः.


 मुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानामसम्बन्धावेशनचतुश्शा - 100 4 लाभेकद्वारामाशालां कारयेत् । विशिखामध्ये सौवर्णिकं शि ल्प वन्तमभिजातं प्रात्ययिकं च स्थापयेत् ।
 जाम्बूनदं शातकुम्भ हाटके वैणवं शृङ्ग शुक्तिज जातरूपं रसविद्ध माकरोद्गतं च सुवर्णम् ।
 किञ्जल्कवर्णं मृदु स्निग्धमनुनादि भ्राजिष्णु च श्रेष्ठम् । रक्त पीतकं मध्यमम् । रक्तमवरम् ।
 श्रेष्ठान पाण्डु श्वेतं चाप्राप्तकं । तत् येनामाप्तकं तच्चतुर्गुणेन


1 मूल्य 2.शाल. 3.शृद्धि. 4.सिद्ध. 5.मनादि ।