पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०प्रक.
49
भूमिच्छिद्रविधानम्

545
शोधयेत्पशुसङ्गैश्च क्षीयमाणवणिक्पथम् ।।
एवं द्रव्यं द्विपवन सेतुबन्धमथाकरान् ।
रक्षेत्पूर्वकृतान्न्राजा नवांश्चाभिपवर्त येत् ॥

इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे जनपदनिवेशः प्रथमोऽध्यायः। आदितो द्वाविंशः.

२०. प्रक, भूमिञ्छिद्रविधानम्.

517 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।  प्रदिष्टाभयस्थावरजङ्गमानि च ब्राह्मणेभ्यो ब्रह्मसोमारण्यानि 55 1 तपोवनानि च, तपस्विभ्यो गोत्र(त) पराणि प्रयच्छेत् । ताव- न्मात्रमेकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छमकण्टकिद्रुममुत्तानतो- याशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्याळमार्गायुकहस्तिहस्ति नीकलभमृगवन विहारार्थ राज्ञः कारयेत् ।

 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निव- शयेत् ।

 कुप्यप्रदिष्टानां च द्रव्याणामेकैकशो वा वनं निवेशयेत् । द्रव्यवनकर्मान्तानटवीश्च द्रव्यवनापाश्रयाः प्रत्यन्ते हस्तिवन- मटव्या रक्षन् निवेशयेत् । 1 गोरुत.