पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ प्रक.] दुर्गविधानम् 51 २१. प्रक. दुर्गविधानम्. चतुर्दिशं जनपदान्ते साम्परायिकं दैव' कृतं दुर्ग कारयेत् । 566 अन्तद्र्वीपं स्थलं वा, निम्नावरुद्धमौदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्वमिरिणं वा धान्वनं, स्वजनोदकं स्तम्ब- गहनं वा वनदुर्ग। तेषां नदीपर्वतदुर्ग जनपदारक्षस्थानं, घान्वनवनदुर्गमटवीस्थान। आपाद्य प्रसारो वा जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत् । वास्तुकप्रशस्ते देशे नदीसङ्गमे हृदस्य वा अनि शोष 'स्याङ्के सरसस्तटाकस्य वा वृत्तं दीर्धे चतुरथं वा वास्तुक वशेन प्रदक्षिणोदकं पण्यपुटभेदनसंसवारिपथाभ्यामुपेतम् । तस्य' परिखास्तिस्रो दण्डान्तराः कारयेत् । चतुर्दश द्वादश दशेति दण्डानु विस्तीर्णाः विस्तारादवगाधाः पादोनमर्धं वा त्रिभागमूला मूले चतुरश्राः पाषाणोपहिताः पापाणेष्टकाबद्ध पार्श्वा वा तोयान्तिकारागन्तुतोयपूर्णा वा सपरिवाहा: पद्मग्रा हवती। चतुर्दण्डावकृष्टं परिखायाः षड्दण्डोच्छूितमवरुद्धं तद्विगुण- 575 विष्कम्भं खातद्विप कारयेत् । ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं 1 देव. खानोदकस्थम्ब, आपद्य. वाटविशोष. मुपेतस्य. 6 दण्डान. पवाञ्च