पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९ प्रक.) दुर्गनिवेश 55 6010 द्वौ क्षुद्रपशुमनुष्यपथः । प्रवीरे वास्तुनि राजनिवेशा। चातुर्वर्ण्यसमाजीवे वास्तुहृदयादुत्तरे नवभागे यथोक्तीव धानमन्तःपुरं प्राङ्मुखमुदङ्मुख वा कारयेत् । तस्य पूर्वोत्तरं भागमाचार्यपुरोहितेज्यातोयस्थानं मन्त्रिणश्वावसेयुः । पूर्वद- क्षिणं भागं महानसं हस्तिशाला कोष्ठागारं च । ततः परं गन्धमाल्यधान्यरमपण्याः प्रधानकारव क्षत्रियाच पूर्वादि. शमधिवसेयुः । दक्षिणपूर्व भागं भाण्डागारमक्षपटलं कर्मनि षद्याश्च । दक्षिणपश्चिमं भागं कुप्यगृहमायुधागार च । ततः परं नगरधान्यव्यावहारिककान्तिकबलाध्यक्षाः पक्वान्नसुरा- मांसपण्याः रूपाजीवास्ताळापचारा वैश्याश्च दक्षिणां दि शामधिवसेयुः। पश्चिमदक्षिणं भागं खरोष्ट्रगुप्तिस्थानं कर्मगृह च । पश्चिमोत्तरं भाग यानरथशालाः । ततः परमूर्णासूत्रबे णुचर्मवर्मशस्त्रावरणकारवश्शूद्राश्च पश्चिमां दिशमधिसेयुः । उत्तरपश्चिमं भागं पण्यभैषज्यगृहम् । उत्तरपूर्व भागं कोशो गवाश्वं च । ततः परं नगरराजदेवतालोहमणिकारवो ब्रा मणाश्चोत्तरां दिशमधिवसेयुः । वास्तच्छिद्रानुलासेषु श्रेणी- प्रवहणी निकाया आवमेयुः। आपराजिताप्रतिहतजयन्तवैजयन्त कोष्ठकान् शिववैश्रवणा- 61 111 1 निदेश , वहणि "विजआ बैजयन्ता अ जयन्ता अपराजे आ । साहासिद्धिगा चेव पञ्च.