पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

92 अध्यक्षप्रचार २ अधि १४ अध्या 110 2 ण्डे वा रूपे लवणमुल्कया कटुशर्करया तप्तमवतिष्ठते । तस्य का- थनं शुद्धिः । अब्भ्रपटलमष्टेकन द्विगुणवास्तुके वा रूपे बध्यते तस्यपिहितकाचकस्योदके निमज्जत एकदेशःसीदति, पटलान्त- रेषु वा सूच्या भिद्यते । मणयो रूप्यं सुवर्ण वा धनमुषि- राणां पिङ्कः ॥ तस्य तापनमवध्वंसनं वा शुद्धिगिति पिङ्कः ॥ तस्माद्वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपर्वणप्रमाणपुद्गलल क्षणान्युपलभेत ॥ कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हर- णोपायाः---परिकुट्टनमवच्छेदनमुल्लेखनं परिमर्दनं वा ॥ पेटकापदशेन पृषितं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम् ॥ यद्विगुणं वास्तुकानां वा रूपे सीसरूपं प्रक्षिप्य अभ्यन्त रमवच्छिन्दन्ति तदेवच्छेदनम् ॥ यत् धानानां तीक्ष्णेनोल्लिखन्ति तदुल्लेखनम् ।। हरितालमनश्शिलाहिङ्गुलकचूर्णानामन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं संयूह्य यत् परिमृद्गन्ति तत् परिमर्दनम् ॥ तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते । न चैषां किञ्चदव- रुग्णं भवति । 1 तस्स विहितकाचस्य , काचस्योदके इति व्याख्यायां पाठः. ल्युक