पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

104 अध्यक्षप्रचार २ अधि. १९ अध्या. 1254 द्विगुणलोहां तुलामतष्षण्णवत्यङ्गुलायामां परिमाणीं का येत् । तस्या शतपदादूर्ध्र्वं विंशति , पञ्चात्, शतमिति पदानि कारयेत् । विंशतितौलिको भार दशधरणिकं पलम् । तत्पलशतमायमानी । पञ्चपलावरा व्यावहारिकी भाजन्यन्त पुरभाजिनी च । तासामर्धरणावरं पलम् । द्विपलावरमुत्तरलोहम् । षड ङ्गुलावराश्चायामा। पूर्वयो. पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम् । काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधि- ष्ठिता। 1994 काष्टपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् । एष प्रदेशो बहल्पयोः । इति तुलापातमानं व्याख्यातम् ! अथ धान्यमाषद्विपलशतं द्रोणमाययानम् । सप्ताशीतिपलशतमर्धपलं च व्यावहारिकम् । पञ्चसप्ततिपलशतं भाजनीयम् ।। द्विषष्टिपलशतमपलं चान्त पुरभाजनीयम् । तेषामाढकप्रस्थकुडुम्बाश्चतुर्भागावराः । षोडशद्रोणा वारी21 डवा खारी.