पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

108 अध्यक्षप्रचार २ अधि२० अध्या. पञ्चदशमुहूर्तो दिवमो रात्रिश्च चैत्रे' मास्याश्वयुजं च मासि भक्त । ततः परं त्रिभिर्मुहूर्तैरन्यतरष्षण्मासं वर्धते ह्रास ने चेति । छायायामष्टपौरुण्यामष्टादशभागश्छेदः पौरुष्यां चतुर्दश- भाग चतुप्पौरुष्यायभाग द्विपौरुष्यां षड्भागः पौरुष्यां चतुर्भाग' अष्टाङ्गुलायां त्रयोदश भागाः च तुरङ्गुलायां अ- ष्टभागाः अच्छायो मध्याह्न इति । 1342 परावृत्ते दिवसे शेषमेवं विद्यात् । आषाढे मासि नष्टच्छायो मध्याह्नो भवति । अत' पर श्रावणादीनां षण्मामानां द्वयङ्गुलोत्तरा माघादी- नां द्वयगुळावरा छाया इति । पञ्चदशाहोरात्रा पक्षः। सोमाप्यायनश्शुक्लः। सोमावच्छेदनो बहुलः । द्विपक्षो मासः। त्रिंशदहोरात्रः प्रकर्ममासः ! सार्धस्सौरः। अर्धन्यूनश्चान्द्रमासः। सप्ताशतिर्नक्षत्रमासः। द्वात्रिंशत् मलमास। पश्चत्रिंशदश्ववाहायाः। चत्वारिंशद्धस्तिवाहायाः। 1 चैत्रे वाश्व. स. योऽष्ट. नास्ति,