पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

६९ प्रक.] शुल्काध्यक्ष 111 पथिकोत्पथिकास्ताद्विद्युः । वैवाहिकमन्वायनमौपयानिकं यज्ञकृत्यप्रसवनैमित्तिक देवे- 1872 ज्याचौळोपनयनगोदानव्रतदीक्षणादिषु क्रियाविशेषेषु भाण्ड- मुच्छुल्कं गच्छेत् । अन्यथावाहि नस्स्तेयदण्डः। कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयमेकमुद्रया' भित्वा पुटमपहरनो वैदेहकस्य तच्च तावच्च दण्ड ! शुल्कस्थानादगोमयपलालं प्रमाण कृत्वाऽपहरत उत्तमस्सा- हसदण्ड । शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनामन्यतमानिर्वाह्यं निर्वाह- यतो यथावधुषितो दण्डः पण्यनाशश्च । तेषामन्यतमयानयने बहिरेवोच्छुल्को विक्रयः। अन्तपालः सपादपणिकां, वर्तनीं गृहणीयात् । पण्यवहनस्य पणिकामेककुरस्य, पशूनामर्धपाणका, क्षुद्रप- शूनां पादिकां, अंसभारस्य माषिकाम् । नष्टापहृतं च प्रतिविदध्यात् । वैदेश्यं सार्थ कृतसारफल्गुभाण्डविचयनमभिज्ञानं मुद्रां च दत्वा प्रेषयेदध्यक्षस्य । वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत् । तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणमुपदिशत् सर्वज्ञत्वख्यापनार्थम् । ततस्सार्थमध्यक्षोऽभिगम्य ब्रूयात्--- वादि. 2 मुद्राया पन्यपुट 1384