पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

112 अध्यक्षप्रचार अधि. १३ अध्या, "इदममुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च न नि गृहितव्यं एष राज्ञः प्रभावः" इति । निगृहितफल्गुभाण्डं शुल्काष्टगुणो दण्ड । सारभाण्डं सर्वा- पहारः राष्ट्रपीडाकरं भाण्डमुच्छिन्द्यादफलं च यत् । महोपकारमुच्छुल्क कुर्याद्वीजं तु दुर्लभम् ॥ इत्यध्यक्षप्रचारे शुल्काध्यक्ष एकविशोऽध्याय आदितो द्विचत्वारिंशः, ४० प्रक शुल्कव्यवहारः. 1888 शुल्कव्यवहारः बाह्यमाभ्यन्तरं चातिथ्यम् । निष्काम्यं प्रवेश्यं च शुल्कम् । प्रवेश्यानां मूल्यपञ्चभागः । पुष्पफलशाकमूलकन्दपल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भा- गं गृह्णीयात् । ___ शङ्खवज्रमणिमुक्ताप्रवाळहाराणां तज्जातपुरुषैः कारयेत् कृतक- र्मप्रमाणकालवेतनफलनिष्पत्तिभिः । क्षौमदुकूलक्रिमितानकङ्कटहरिताळमनश्शिलाहिङ्गुलुकलोहव- र्णधातूनां चन्दनागरुकटुककिण्वावरणानां सुरादन्ताजिनक्षौ मदुकूलनिकरास्तरणप्रावरणक्रिमिजातानामजैळकस्य च दश- 139 4 भागः, पञ्चदशभागो वा । च. वलि. लक.