पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

118 अध्यक्षप्रचार १२ आधि, २८ अध्या. सर्वबीजानां तु प्रथमवापे सुवर्णोदकसंप्लुतां पूर्वमुष्टिं वाप- येत् 'अमुं च मन्त्रं ब्रूयात्- 146 1 "प्रजापतये काश्यपाय देवाय च नमः सदा। सीता मे ऋध्यतां देवी बीजेषु च धनेषु च " ॥ षण्डबाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात् । सपादपणिकं मासं दधात् । कर्मानुरूपं कारुभ्यो भक्तवेतनम् ।। प्रशीर्णं च पुष्पफलं देवकार्यार्थ ब्रीहियवमाग्रयणार्थं श्रोत्रि- यास्तपस्विनश्चाहरेयुः । राशी मूलमुञ्छवृत्तयः । यथाकालं च सस्यादिं जात जातं प्रवेशयेत् । न क्षेत्रे स्थपयत्किञ्चित्पलालमपि पण्डितः ।। प्रकाराणां समुछायान् वलभीर्वा तथाविधाः । न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। खलस्य प्रकरान्कुर्यान्मण्डलान्ते समाश्रितान् । अनग्निकारसोदकाश्च खले स्युः परिकर्मिणः ।। इत्यध्यक्षप्रचारे सीताध्यक्ष चतुर्विशोऽध्यायः आदित पञ्चचत्वारिंशः 1" अमंच मन्त्र” इत्यादि: “भक्तवेतन" इत्यन्तो प्रन्थ व्याख्यात्रा न व्याख्यात । राशि' प्रकराः कुळुमाः इति व्या.