पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
123
[२ अधि २६ अध्या.
अध्यक्षप्रचार


४३ प्रक. सूनाध्यक्षः


 नूनाध्यक्ष प्रदिष्टाभयानामभयवनवासिनां च मृगपशुपक्षि. 1515 मत्स्यानां बन्धवधरहिंसायामुत्तमं दण्ड कारयेत् । कुटुम्बिना. मभयवनपरिग्रहेषु मध्यम !
 अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवहिंसायां पादोनस- प्तविंशतिपणमत्ययं कुर्यात् । मृगपशूनां द्विगुणं ।

प्रवृत्तहिंसानामपरिगृहीतानां षड्भागं गृह्णीयात् ।
मत्स्यपक्षिणा दशभागं वाधिकं मृगपशूनां शुल्क वाधिकम् ।
पक्षिमृगाणां जीवच्छड्भागमभयवनेषु प्रमुञ्चेत् ।
सामुद्रहस्त्यश्वपुरुषवृषगर्दभाकृतयो मत्स्या' सारसा नादे

यास्तटाककुल्योद्भवा वा । क्रौञ्चोत्क्रोशकदात्यूहहंसचक्रवाक- जीवज्जीवकभृङ्गराजचकोरपत्तकोकिलमयूरशुकमदनशारिका घि हारपक्षिणो मङ्गल्याश्चान्येषि प्राणिनः पक्षिमृगा हिंसाबाधे भ्यो रक्ष्याः। रक्षातिक्रमे पूर्वस्साहसदण्डः ।।  मृगपशूनामनस्थिमांसं सद्योहतं विक्रीणीरन् । अस्थिमतः प्रतिपातं दधुः । तुलाहीने हीनाष्टगुणं । <poemवत्सो वृषो धेनुश्चैषामवध्याः । 1528 धान पञ्चाशन्को दण्ड क्लिष्टधात घातयतश्च ।</poem>


1 प्रतिपाक प्रतिपात यावन्मात्रमस्थि तावच्छद्ध मालमधिक दद्य इति