पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
12-1
अधि. २७ अध्या
अध्यक्षप्रचार२


1536 द्वादशसाहस्रो गणिकापुत्रस्य ।
अष्टवर्षात्प्रभृति राज्ञ. कुशीलवकर्म कुर्यात् ।

 गणिका दासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कृर्यात् ।

अविशन्ती मपादपणमवरुद्धा मासवेतन दद्यात् ।
भोग दायमायव्ययमायानि च गणिकायाः निबन्धयेत् ।
अतिव्ययकर्म च वारयेत् ।

मातृहस्तादन्यत्राभरणन्यासे सपादचतुष्पणो दण्डः ।
स्वापतेय विक्रयमाधानं 'नयन्त्यारसपादपश्चाशत्पणो दण्डः।।
चतुर्विंशतिपणो वाक्पारुष्ये ।
द्विगुणी दण्डपारुष्ये ।
सपादपञ्चाशत्पण. पणोर्धपणश्च कर्णच्छेदने ।

 अकामाया कुमार्या वा साहसे उत्तमो दण्डः । सका- माया. पूर्वः साहसदण्ड ।  गणिकामकामां रुन्धतो निष्पातयनो वा प्राणविदारणेन वा रूपमुपघ्नतः सहस्र दण्डः । स्थानविशेषेण वा दण्डवृद्धि रानिष्क्रयद्विगुणात्पणसहस्त्रं वा दण्डः ।।

प्रासाधिकारां गणिकां घातयतो निष्क्रयत्रिगुणो दण्डः ।
164 10 मातृकादुहितकारूपदासीनां घात उत्तमस्साहसदण्डः ।।

 सर्वत्र प्रथमेऽपराधे प्रथम, द्वितीये द्विगुणः; तृतीये त्रिगुणः; चतुर्थे यथाकामी स्यात् ।


1नवा