पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

135 अध्यक्षप्रचार २ अधि. ३२ अध्या 1724 सान्नाह्यन्सप्तक्रियापथ:--उपस्थान संवर्तनं संयानं वधावधो हस्तियुद्धं नामरायणं माङ्गामिकं च । तस्योपविचार कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च । औपवाह्योऽष्टविधः--आचरण', कुञ्जरौपवाह्यः, धोरणः, आधानगतिक , यष्टुयपवाह्य , गोत्रोपवाह्यः, शुद्धोपवाहवयः, मार्गा- युकश्चति । तस्योपविचार. शारदकर्म हीनकर्म नारोष्ट्रकर्म च । व्याळ ऐकक्रियापथः। तस्योपावचार आयम्यैकरक्षः कर्मशङ्कि तोऽवधरुद्धां विषम प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च क्रियाविपन्नो व्याळः। शुद्धस्सुव्रतो विषमः सर्वदोषप्रदुष्टश्च ।। तेषां बन्धनोपकरणमनीकस्थप्रमाणं आलानग्रैवेयकक्ष्यापा- रायणपरिक्षेपोत्तरादिकं बन्धन ; अङ्कुश वणुयन्त्रादिकमुपकरणं ; वैजयन्तीक्षुरप्रमालास्तरणकुथार्दिकं भूषणं ; वर्मतोमरशरावा- पयन्त्रादिकस्साङगामिकालङ्कार ।। चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापा- चकयावसिकपादपाशिककुटीरक्षकौपशायिकादिरौपस्थायिकवर्गः 173 10 चिकित्सककुटीरक्षविधापाचकाः प्रस्थौदनं स्नेहप्रसृति क्षारलवणयोश्च द्विपलिकं हरेयुः । दशपल मांसस्यान्यत्र चि- कित्सकेभ्य । ___ रणा, मृत,