पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

समाहतप्रकार 141 1771 द्वादशपणममुद्रो जानपदो दद्यात् । कूटमुद्रायां पूर्वस्साहसदण्डः। तिरोजनपदस्योत्तमः । विवीताध्यक्षो मुद्रां पश्येत् । भयान्तरेषु च विवीतं स्थापयेत् । चोरव्याळभयान्निम्नार- ण्यानि शोधयेत् । अनु'दके कूपसेतुबन्धोत्सान् स्थापयेत्, पुष्पफलवाटांश्च । लुब्धकश्वगाणिनः परिव्रजेयुररण्यानि ।। तस्करापित्राभ्यागमे शङ्खदुन्दुभिशब्दम ग्राह्याः कुर्यु । शैलवृ- क्षविरूढा वा, शीघ्रवाहना वा अमित्राटवीसञ्चारं च राज्ञो गृह- कपोतैर्मुद्रायुक्र्तैहारयेयुः धूमाग्निपरंपरया वा । द्रव्यहस्तिवनाजीवं वर्तिनी चोररक्षणम् । सार्थातिवाह्यं गोरक्ष्य व्यवहारं च कारयेत् । इत्यध्यक्षप्रचारे मुद्राऽध्यक्षो विवीताध्यक्षः चतुस्त्रिंशोऽध्याय आदित पञ्चपञ्चाशः. ५४-५५ प्रक. समाहर्तृप्रचारः गृहपति- वैदेहकतापसव्यञ्जनाः प्रणिधयः, समाहर्ता चतुर्धा जनपदं विभज्य, ज्येष्ठमध्यपकनिष्ठविभा- 178 1 अनू. वृक्षा. येत्,