पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ प्रक.] नागरकणिधिः 143 एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतु 179 s वनकर्मान्तक्षेत्रजानां परिमाणमर्धं च विद्युः । परभूमिजातानां वारिस्थलपथोपयातानां सारफल्गुपण्यानां कर्मसु च शुल्क वर्तन्यातिवाहिकगुल्मनरदेयभागभक्तपण्यागार- प्रमाणं विद्युः। एवं समाहर्तृप्रदिष्टास्तापसव्यञ्जना. कर्षक गोरक्षकवैदेहकाना- मध्यक्षाणां च शौचाशौचं विद्युः । पुराणचोरव्यञ्जनाश्चान्तेवासिनश्चेत्यचतुष्पथशून्या पदोदपान- नदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपु रुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन् । समाहर्ता जनपद चिन्तयेदेवमुत्थितः । चिन्तयेयुश्च संस्थास्तास्संस्थाश्चान्यास्स्वयोनयः ।। इत्यध्यक्षप्रचारे समाहर्तृप्रचार. गृहपतिवैदेहकतापसव्य- ञ्जनप्रणिधयश्च पञ्चाशोऽध्यायः आदितष्षट्पञ्चाशः, ५६ प्रक. नागरकप्रणिधिः समाहर्तृवनागरको नगरं चिन्तयेत् । दशकुली गोपो, विश 1806 तिकुलीं चत्वारिंशत्कुलीं वा । 1 कर्मक.