पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ प्रक] नायरकप्राणिधि 145 अग्निप्रतीकारं च ग्रीष्मे मध्यपयोरह्नश्चतुर्भागयोः अष्टमागोड 182 4 ग्निदण्डः । बहिरधिश्रयणं । कुर्यु । पादः पञ्चघटीनां कुम्भद्रोणी निश्रेणीपरशुशूर्पङ्कुशकचग्रहणी- दृतीनां च अकरणे । तृणकटच्छन्नान्यपनयेत् । अग्निजीविन एकस्थान वासयेत् । स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयु । असपातिनो रात्रौ रथ्यासु कटव्रजास्सहस्रं तिष्ठेयुः । चतुष्पथद्वारे राज परिग्रहेषु च । प्रदीप्तमनभिधावतो गृहस्वामिनो द्वादशपणो दण्ड । षट्पणो विक्रयिणः। प्रमादादीप्तेषु चतुष्पञ्चापत्पणो दण्डः । प्रादीपिकोऽग्निना वध्य । पांसुन्यासे रथ्यायामष्टभागो दण्ड । पोदकसन्निरोधे पादाः । राजमार्गे द्विगुणः । पुण्यस्थानोदकस्थानदेवगृहराजपरिग्रहेषु पणोत्तरा विष्टादण्डाः मूत्रष्वर्धदण्डाः । भैषज्यव्याधिभयनिमित्तमदण्डयाः। मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तरुत्सर्गे त्रिपणो दण्डः। खरोष्ट्राश्वतराश्वपशुप्रेतानां षट्पण । मनुष्यप्रेतानां पञ्चाशत्पणः। मार्गविपर्यासे शवद्वारादन्यतश्शवनिर्णयने पूर्वस्साहसदण्डः। द्वार्स्र्थानां द्विशतम् ! श्मशानादन्यत्र न्यासे दहने च द्वादशपणो दण्डः। 1839 1 श्रोणि. द्वारराज. न्यतश्च नि. 19