पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

150 धर्मीयम् ३ अधि १ अध्या 190 8 भाव । प्रेतस्य व्यसनिनो वा साक्षिवचनाः सारमभियोक्ता दण्डं दत्वा कर्म कारयेत् आधि वा सकामं प्रवेशयेत् । रक्षो. घ्नरक्षितं वा कर्मणा प्रतिपादयेत् अन्यत्र ब्राह्माणादिति । चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः ।। धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः ॥ अत्र सत्य स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं सङ्गहे पुंसां राज्ञामाज्ञा तु शासनम् ॥ राज्ञः स्वधर्मस्स्वर्गाय प्रजा धर्मेण रक्षितुः । अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा ॥ दण्डो हि केवलो लोकं परं चेमं च रक्षति । राज्ञा पुत्रे च शत्रौ च यथादोषं सम धृतः ॥ अनुशासद्धि धर्मेण व्यवहारेण संस्थया। न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥ संस्थाया धर्मशास्त्रेण शास्त्र वा व्यावहारिकम् । यास्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिश्चयेत् ॥ 1919 शास्त्रं विप्रतिपद्यत धर्मन्यायेन केनचित् । न्यायस्तत्र प्रमाणं स्यात्तत्र पाटो हि नश्यति ॥ 1 साभियोका , साक्षिवचनमसार अभियोक्तार' इति पाठस्साधारति भाति. अधिवासकाम राजध. तत्र. सत्ये, 6 रोस्त स्थया. निर्णयेत. अर्थशास्त्रात्त बलबद्धर्मशास्त्रमिति स्थिति. 21, II याज्ञावल यस्मृति..