पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

विधाहसयुक्तम् 157 1992 राजद्विष्टार्ति चाराभ्यामात्मापक्रमणेन च । स्त्रीधनानीतशुल्कानामस्वाभ्यं जायते स्त्रियः ।। इति धर्मस्थीये विवाहसंयुक्ते शुश्रूषाभर्मपारुष्यद्वेषाति- चारा उपकारव्यवहारप्रतिषेधाश्च तृतीयोऽध्यायः. आदितषष्ठितम ५१ प्रक. विवाहसंयुक्ते-निष्पननं पथ्यनुसरणं ह्रस्वप्रवासः दीर्घप्रवासश्च पतिकुलान्निष्पतितायाः स्त्रियाष्पट्रपणो दण्डोऽन्यत्र विप्र कारात् । प्रतिषिद्धायां द्वादशपण। प्रतिवेशगृहातिगतायाघ्षट्पणः। प्रातिवेशिकभिक्षुकवैदेहकानामवकाशभिक्षापण्यादाने द्वादश- पणो दण्ड'! प्रतिषिद्धानां पूर्वः साहसदण्डः। परिगृहातिग- तायां चतुर्विशतिपणः ॥ परभार्यावकाशदाने शक्यो दण्डोऽन्यत्रापद्भयः । वारणाज्ञा नयोर्निर्दोषः प्रति विप्रकारात् ।। "पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानामन्य तमं पुरुषं गन्तुमदोषः" इत्याचार्याः ।। “सपुरुषं वा ज्ञातिकुलं कुतो हि साध्वीजनस्य छलं मु 200 3 खमेतदवबोद्धुम्" इति कौटिल्यः । प्रेतव्याधिव्यसनगर्भनिमित्तमप्रतिषिद्धमेव ज्ञातिकुलगमनम् ॥ 1 द्विष्टाति. शत्यो. पात. ट.