पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९० प्रक.
161
दायक्रम

 जीवद्विभागे पिता नैकं विशेषयेत् । न चैकमकारणान्निर्वि भजेत । पितुरमत्यर्थे ज्येष्ठा कनिष्ठाननुगृह्णीयुः अन्यत्र मि- थ्यावृत्तेभ्यः ॥
 प्राप्तव्यवहाराणां विभाग । अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुर्व्यवहारप्रापणात प्रोषि- तस्य वा ।।
 सन्निविष्टसममसन्निविष्टेभ्यो नैवेशनिक दधुः। कन्याभ्यश्च प्रदानिकम् ॥
 ऋणरिक्थयोस्समो विभाग'॥
 'उदपात्राण्यपि निष्किञ्चना विभजेरन्' इत्याचार्याः ।।
 'छलमेतदिति' कौटि[१]ल्यः । सतोऽर्थस्य विभागो नासतः
'एतावानर्थः सामान्यस्तस्यैतावान् प्रत्यंशः' इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् । दुर्विभक्तमन्योन्यापहृतमन्तार्हतमवि- ज्ञातोत्पन्नं वा पुनर्विभजेरन् ॥
 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकदर्यवर्जमन्यत्र श्रोत्रिय- द्रव्यात् । तत् त्रैविधेभ्यः प्रयच्छेत् ।।
 पतितः पतिताज्जाताः क्लीवश्चानंशाः । जडोन्मत्तान्धकुष्ठि- 205 6 नश्च । सति भार्यार्थे तेषामपत्यमतद्विधं भार्ग हरेत् । ग्रासा-

च्छादनमितरे पतितवर्जाः ।।



  1. ट.