पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ प्रेक.
169
वास्तुक

 प्रगष्ट[१]सेतुभोग वा सीमानं राजा यथोपकारं विभजेत् ।
 क्षेत्रविवाद सामन्तग्रामवृद्धाः कुर्यु । तेषा द्वैधीभावे यतो वहवश्शुचयोऽनुमता वा ततो नियच्छेतुः । मध्यं वा गृह्णीयुः । तदुभयं परोक्तं वास्तु राजा हरेत् ।।
 प्रणष्टस्वामिकं च यथोपकार वा विभजेत् । प्रसह्यादाने वा- स्तुनि स्तेयदण्ड. ! कारणादाने प्रयासमाजीवं च परिसङ्ख्याय बन्धं दद्यात् । मर्यादापहरणे पूर्वस्साहसदण्ड । मर्यादाभेदे च. तुर्विशतिपण । तेन तपोवनविवीतमहापथश्मशानदेवकुलयजन- पुण्यस्थानविवादा व्याख्याताः !
 इति मर्यादास्थापनम् ।
 सर्व एव विवादास्मामन्तप्रत्ययाः।
 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्व पूर्वमवाधं[२] सहेत ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः ।
 स्थलप्रदेशा आधारपरिवाहकेदारोपध्वभोगै.[३] परक्षेत्रकृष्ट- बीजहिंसायां यथोपघातं मूल्य[४] दधुः । केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्ड ।
 पश्चान्निविष्टमधरतटाकं नोपरितटाकस्य केदारमुदकेनाप्ला- वयेत् ।

 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं बार[५] येत् अन्यत्र त्रिवर्षोपरतकर्मणः । तस्यातिक्रमे पूर्वस्साहसदण्ड । तटाकवामनं च।



  1. प्रणष्टे
  2. मावाय.
  3. रोपभोगे ,
  4. तमूल्य.
  5. कार