पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
170
[ अधि.१० अध्या.
यमस्थीयम

 पञ्चवर्षोपरतकर्मण सेतुबन्धस्य स्वाम्य लुप्येतान्यत्रारद्भयाः।
 तटाक सेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिक परिहारः ।
 भग्नोत्सृष्टाना चातुर्वर्षिकः।
 समुपारूढानां त्रैवार्षिक।
 स्थलस्य द्वैवर्षिक: स्वात्माधाने विक्रये च ।
 वानम[१] वृत्तिमनन्दि[२] निवन्त्रायतननटाककेदारारामपण्डव पानां सम्यपर्ण[३] भागोत्तरिकान्येभ्यो वा यथोपकारं दद्यु. । प्रक्रयावक्रयविभाग[४] भोगनिसृष्टोपभोक्तारश्चैषां प्रतिकुर्युः । अ- प्रतीकारे हीनद्विगुणो दण्ड ॥}}

सेतुभ्यो मुञ्चतस्तोयमपारे षट्पणो दम ॥

पारे वा तोयमन्येषां प्रमादेनोपरुन्धतः ॥

इति धर्मस्थीये वास्तुके वास्तुविक्रय सीमाविवाद मर्यादास्थापनं वाधावाधिक नवमोऽध्याय.

आदितः षट्पष्ठितमोऽध्याय ॥


६१-६२. विवीतक्षेत्रपथहिंसा समयस्या-

नपाकर्म च.

कर्मोदकमार्गमुचितं रुन्धत कुर्वतोऽनुचितं वा पूर्वस्साहसदण्ड:॥

सेतुरूप[५] पुण्य स्थान चैत्यदेवायतनानि च परभूमौ निवेशयतः



  1. खातप्रा.
  2. नदी.
  3. वर्ण,
  4. याधिभाग,
  5. कूप