पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
172
है अवि. १० अध्या.
वस्थीयम

 ग्रामिकस्य ग्रामादन्तेनपारदारं[१] निरस्यतश्चतुर्विंशतिपणो दण्डः । ग्रामस्योत्तमः ।।
 निरस्तस्य प्रवेशो ह्यधिगमेन व्याख्यातः ।।
 स्तम्भैस्समन्ततो ग्रामाद्धनश्शतापकृष्टयुपशालं[२] कारयेत् ।।
 पशुपचारार्थं विवीतभालवने[३] नोपजीवेयुः ॥
 विवीतं भक्षयित्वाव[४] सृतानामुष्टमहिपाणा पादिकं रूपं गृह्णीयुः । गवाश्वखराणा चार्धपादिक । क्षुद्रपशूनां षोडश भागिकम् ॥
 भक्षयित्वा निषण्मानामेन एव द्विगुणा दण्डाः । परिवसतां चतुर्गुणाः ॥
 ग्रामदेववृषा वा अनिर्दशाहा वा धेनरुक्षाणो गोवृषाश्चादण्डाः[५]
 सस्यभक्षणे सस्योपघातं निष्पत्तितः[६] परिसङ्ख्याय द्विगुणं दापयेत् । स्वामिनश्च [७]निवेद्य चारयतो द्वादशपणो दण्डः प्रमुञ्चतश्चतुर्विंशतिपणः । पालिनामर्धदण्डाः । तदेव षण्डभक्षणे कुर्यात् । वाटभेदे द्विगुणः ॥
 वेश्मखलवलयमनानां च धान्यानां भक्षणे हिंसाप्रतीकारं कुर्यात् ॥
 अभयवनमृगाः परिगृहीता' भक्षयन्तः स्वामिनो निवेद्य

यथाऽवध्यास्तथा प्रतिषेद्धव्याः ॥



  1. दारिक
  2. सालं,
  3. पन
  4. ण्ड्या,
  5. तितः,
  6. श्वानि.