पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६: प्रक.]
175
ऋणादानम्

व्यम् । असङ्ख्यातदेशकाल नु पुत्रा पौत्रा दायादा वा रिक्थं हरमाणा दध्यु । जीवित विवाहभूमिप्रातिभाव्यमसङ्ख्य़ातदेश काल तु पुत्रा पौत्रा वा वहेयु ।
 नानर्णसमवाये तु नैको[१] द्वौ युगपदभिवदेयातां अन्यत्र प्र तिष्ठमानात् । तत्रापि गृहीतानुपूर्व्या राजश्रोत्राय[२] द्रव्यं वा पूर्वं प्रतिपादयेत् ।
 दपत्योः पितापुत्रयोः भ्रातृणां चाविभक्तानां परस्परकृतमृ- णमसाध्यम् ।
 अग्राह्या कर्मकालेषु कर्पका राजपुरुषाश्च । स्त्री वा प्रतिश्रा- वणी[३] पतिकृत ऋण अन्यत्र गोपालकार्द्धसीति[४] केम्यः ।।
 पतिस्तु प्रायः। स्त्रीकृतं ऋणमप्रतिविधाय प्रोषित इति सम्पतिपत्तावुत्तमः । असम्प्रतिपत्तौ तु साक्षिण. प्रमाणम् ।
 प्रात्ययिकाश्शुचयोऽनुमता वा त्रयोऽवरार्थ्याः[५]। पक्षानुम- तौ वा द्वौ। ऋणं प्रति न त्वेवैक।
 प्रतिषिद्धा[६] स्त्यालसहायावद्ध[७] धनिकधारणिकवैरिन्यङ्गधृतद ण्डाः । पूर्वे चाव्यवहार्याः राजश्रोत्रियग्रामभृतकुष्टिव्रणिनः

पतितचण्डालकुत्सितकर्माणोऽन्धवधिरमूकाहवादिनः स्त्रीराज-



  1. नैकं
  2. श्रोत्रियद,
  3. चाप्रतिश्राविणी.
  4. गोपालकासीति.
  5. पराया.
  6. प्रतिविद्धा.
  7. हायान्वर्थी,